बदरीफलमात्रं तु वतुलं नीलवर्णकम् । प्रसन्नवदनं सूक्ष्मं सुस्निग्धं कन्यके शुभे ॥ ३,२६.
चक्रद्वयसमायुक्तं गौपूरैः पञ्चभिर्युतम् । चापबाणसमायुक्तमनतं कुण्डलाकृतिम् ॥ ३,२६.
वनमाल सुखयुतं मूर्ध्नसाहस्रसंयुतम् । रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्धमात्रकम् ॥ ३,२६.
चन्द्रेण सहितं देवि दधिवामनमुच्यते । एतादृशं कलौ नॄणां दुर्लभं बहुभाग्यदम् । लक्ष्मीनारायणसमां तां मूर्तिं विद्धि भामिनि ॥ ३,२६.
सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च । सम्यक्स्वरूपं दधिवामनस्य सुदुर्घटं श्रवणं वैष्णवाच्च ॥ ३,२६.
तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च । दशहस्तप्रमाणं तु चन्द्रतीर्थमुदाहृतम् ॥ ३,२६.
मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले । तत्र स्थित्वा धन्यनरः सदा भजति वै हरिम् ॥ ३,२६.
वराहमूर्तिदानं तु शालग्रामस्य दुर्लभम् । जंबूफलप्रमाणं तु एतद्वै कुक्कुटाण्डवत् ॥ ३,२६.
वदनं वलयाकारं प्रमाणं चणकादिवत् । देवस्य वामभागे च मध्यदेशं विहाय च ॥ ३,२६.
चक्रद्वयसमायुक्तंमूर्धदेशे च भामिनि । सुवर्णबिन्दुना युक्तं भूवराहाख्यमुच्यते ॥ ३,२६.
पूजां कृत्वा भूवराहस्य मर्तेर्दानं दत्त्वा श्रवणं चापि कृत्वा । तत्र स्थितं भूवराहं च दृष्ट्वा स वै नरः कृतकृत्यो हि लोके ॥ ३,२६.
तत्र स्नात्वा भूवराहस्य मर्तेः शृणोति यो लक्षणं सम्यगेव । स तेन पुण्यं समुपैति देवि स मुक्तिभाङ्नात्र विचार्यमस्ति ॥ ३,२६.
ईशानकोणे श्रीनिवासस्य देवि रौद्रं तीर्थं परमं पावनं च । तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् ॥ ३,२६.
हस्ताष्टकं तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवैः कार्यमेव । तत्र स्नात्वा प्रयतो वै मुरारेः कथां दिव्यां शृणुयादादरेण । स्नानं पानं तत्र दानं च कुर्याल्लक्ष्मीनृसिंहप्रीयते देवि नित्यम्३,२६.
बदरीफलमात्रं च वर्तुलं बिन्दुसंयुतम् ॥ ३,२६.
देवस्य वामभागे तु चक्रद्वयसमन्वितम् । सुवर्णरेखासंयुक्तं किञ्चिद्रक्तसमन्वितम् ॥ ३,२६.
वैश्यवर्णं सवदनं पद्मरेखादिचिह्नितम् । लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् ॥ ३,२६.
एता दृशं गण्डिकायाः शिलाया मूर्तेर्दानं दुर्घटं विद्धि वीन्द्र । तत्र स्नात्वा श्रीनृसिंहस्वरूपं लक्ष्मीपतेः शृणुयाद्भक्तियुक्तः ॥ ३,२६.
मूर्तेर्दानात्फलमाप्नोति देवि सत्यंसत्यं नात्र विचार्यमस्ति ॥ ३,२६.
ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतम् । दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकम् ॥ ३,२६.
शालग्रामस्य दानं तु दुर्लभं तत्र वै नृणाम् । लक्ष्मीनारायणस्यैव मूर्तेर्दानं सुदुर्लभम् ॥ ३,२६.
स्थलमौदुंबरसमं तत्प्रमाणमुदाहृतम् । छत्त्राकारं वर्तुलं च प्रसन्नवदनं शुभम् ॥ ३,२६.
चणकप्रदेशमात्रं च वदनं समुदाहृतम् । सव्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् ॥ ३,२६.
गोयूथवत्सवर्णं च चतुश्चक्रसमन्वितम् । गोखुरैश्च समायुक्तं सुवर्णकिणसंयुतम् ॥ ३,२६.
वनमालाभिसंयुक्तं वज्रपुङ्खैश्च संयुतम् । एतादृशीं दरेर्मूर्ति लक्ष्मीनारायणं विदुः ॥ ३,२६.
कलौ नृणां तस्य लाभो दुर्लभः संस्मृतो भुवि । दानं च सुतरां देवि दर्लभं किं वदामि ते ॥ ३,२६.
ब्रह्मतीर्थे च संस्नाय श्रोतव्या वै हरेः कथा । गण्डिकायाः शिलायाश्च लक्ष्मीनारायणस्य तु ॥ ३,२६.
लक्षणं यो विजानाति तदा तत्सदृशं फलम् । प्राप्नोत्येव न संदेहो नात्र कार्या विचारणा ॥ ३,२६.
श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम् । श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः ॥ ३,२६.
शालग्रामशिलादानं कर्तव्यं श्रोत्रियायवै । शालग्रामशिलादानं हत्याकोटिविनाशनम् ॥ ३,२६.