ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः 46.
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् 46.
अर्य्यमा सविता चैव विवस्वान्विबुधाधिपः 46.
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः 46.
आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः 46.
नायिका कालिका नाम शक्राद्गन्धर्वगाः पुनः 46.
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् 46.
गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् 46.
उदगाश्रयं च वारुण्यां वातायनसमन्वितम् 46.
अभ्यागतालयं रम्यसशय्यासनपादुकम् 46.
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः 46.
प्राकारं तद्बहिर्दद्यात्पञ्चहस्तप्रमाणतः 46.
चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः 46.
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्त्तिताः 46.
चतुः षष्टिपदा देवा इत्येवं परिकीर्त्तिताः 46.
ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः 46.
अग्निजिह्वः कालकश्च करालो ह्योकपादकः 46.
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् 46.
कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् 46.
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् 46.
शेषमंशं विजानीयाद्देवलस्य मतं यथा 46.
यच्छेषं तद्भवेज्जीवं मरणं भूतहारितम् 46.
वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा 46.
एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् 46.
सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् 46.
वह्नौ वध(बन्ध)श्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः 46.
नृपभीतिर्मृतापत्यं ह्यनपत्यं न वैरदम् 46.
द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् 46.
राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् 46.
नैर्ऋत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् 46.