तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः । व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने । पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥ ३,२६.
मूको वाग्मी भवेदेव बधिरः श्रावको भवेत् । वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥ ३,२६.
एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् । तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥ ३,२६.
यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् । मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सहमोदते ॥ ३,२६.
कल्याणाद्भुतगात्राय कामितार्थप्दायिने । श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ ३,२६.
श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके । स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥ ३,२६.
स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता । तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये । तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥ ३,२६.
तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम् । तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥ ३,२६.
तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात् । एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥ ३,२६.
सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति । अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥ ३,२६.
तीर्थानां स्नानमात्रेण मोक्षं यान्तीति ये विदुः । ते सर्वे असुरा ज्ञेयास्ते यान्ति ह्यधमां गतिम् ॥ ३,२६.
श्रीनिवासस्य तीर्थेस्मिन्वायुकोणे च कन्यके । आस्ते वायुः सदा विष्णोः पूजां कर्तुमनुत्तमाम् ॥ ३,२६.
वायुतीर्थं च तत्प्रोक्तं हस्तद्वादशकान्तरम् । हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम् । उत्तरे हस्तषट्कं तु वायुतीर्थमुदाहृतम् ॥ ३,२६.
ये वेष्णवा वैष्णवदासवर्याः स्नानं सुर्युस्तत्र पूर्वं सुकन्ये । मध्वान्तस्थाः श्रीनिवासस्तु नित्यमत्र स्नानात्प्रीयतां मे दयालुः ॥ ३,२६.
ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः । सदा स्नानं तत्र कुर्वन्ति देवि प्रातः काले चोदयात्पूर्वमेव ॥ ३,२६.
ये वायुतीर्थे विसृजन्ति देहजं मलं मूत्रं वमनं श्लेष्मकं च । येऽपानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च ॥ ३,२६.
शृण्वन्ति ये भागवतं पुराणं किं वर्णये तस्य पुण्यं तु देवि । ये कृष्णमन्त्रं तु जपन्ति देवि ह्यष्टा क्षरं मन्त्रवरं सुगोप्यम् ॥ ३,२६.
तेषां हरिः प्रीयते केशवोलं मध्वान्तस्थो नात्र विचार्यमस्ति । एवं दानं तत्र कुर्वन्ति ये वै द्विजाग्र्याणां वैष्णवानां विदां च ॥ ३,२६.
तेषां पुण्यं नैव जानन्ति देवा जानात्येवं श्रीनिवासो हरिस्तु । शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति स व्यङ्कटेशः ॥ ३,२६.
सुदुर्लभो वायुतीर्थेऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि । तत्रापि तीर्थे लभ्यते भाग्ययोगाद्भागवतस्य श्रवणं विष्णुदासैः ॥ ३,२६.
तथैव तीर्थे दुर्लभं तत्र देवि शालग्रामस्य द्विजवर्ये च दानम् । जंबूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्वितम् ॥ ३,२६.
सुकेसरैः संयुतं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्यवैश्च । जानार्दनीं मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तत्र तीर्थे ॥ ३,२६.
अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्ल्लभं परमं नात्र लोभः । सुदुर्लभं बहुदोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिकानाम् ॥ ३,२६.
अत्युत्तमं द्रव्यदानं च देवि स्वापेक्षितं दानमाहुर्महान्तः । स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः ॥ ३,२६.
अत्युत्तमं गृष्टिदानं च पुण्यं नैवाप्यते दुग्धदोहाश्च गावः । अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वै जनानाम् ॥ ३,२६.
अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये । अत्युत्तमं द्रव्यदानं च देवि सुदुर्घटं वायुतीर्थं नृणां हि । सुदुर्लभो वैष्णवैस्तत्त्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये ॥ ३,२६.
श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितम् । चन्द्रतीर्थ मिति प्रोक्तं तत्रास्ते चन्द्रमाः सदा ॥ ३,२६.
श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययम् । तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके ॥ ३,२६.
गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः । तत्र स्नात्वा पूर्वभागे शालग्रामं ददाति यः ॥ ३,२६.
ज्ञानद्वारा मोक्षमेति नात्र कार्या विचारणा । दधिवामनमूर्तेश्च दानं तत्र सुदुर्लभम् ॥ ३,२६.