मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व । यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥ ३,२६.
सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व । मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥ ३,२६.
मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व । पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥ ३,२६.
न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च । न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥ ३,२६.
मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व । यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥ ३,२६.
यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति । अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥ ३,२६.
आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् । उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥ ३,२६.
चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा । ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥ ३,२६.
श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः । भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥ ३,२६.
स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः । तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥ ३,२६.
सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः । तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥ ३,२६.
आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये । एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् । वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥ ३,२६.
सुवर्णमुखरीतीरमारभ्य गरुडध्वजः । श्रीकृष्णवेणीपर्यन्तं स्थापयामास तं गिरिम् ॥ ३,२६.
गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम् । मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥ ३,२६.
अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले । गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥ ३,२६.
य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः । ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्नुयात् ॥ ३,२६.
पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति । यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥ ३,२६.
चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः । पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च । पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥ ३,२६.
शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः । वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥ ३,२६.
अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः । व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥ ३,२६.
तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः । व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने । पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥ ३,२६.
मूको वाग्मी भवेदेव बधिरः श्रावको भवेत् । वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥ ३,२६.
एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् । तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥ ३,२६.
यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् । मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सहमोदते ॥ ३,२६.
कल्याणाद्भुतगात्राय कामितार्थप्दायिने । श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ ३,२६.
श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके । स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥ ३,२६.
स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता । तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये । तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥ ३,२६.
तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम् । तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥ ३,२६.
तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात् । एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥ ३,२६.
सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति । अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥ ३,२६.