आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः । सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥ ३,२६.
बभूव दैत्ययोनौ च देवानां कण्टको बली । संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥ ३,२६.
हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः । एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥ ३,२६.
तदा माता दितिर्देवी हिरण्याक्षमुवाच सा । दितिरुवाच । वत्सलस्त्वं महाभागमा तपस्वाष्टहायनः ॥ ३,२६.
त्वं मा ददस्व दुः खं मे पालयिष्यति कोविदः । क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥ ३,२६.
मा तप त्वं महाभाग मम जीवनहेतवे । एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥ ३,२६.
हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजनेऽलं कुरुष्व । मयिस्नेहं पुत्रहेतोर्विरूढं सुखदुः खे चेह लोके परत्र ॥ ३,२६.
यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम् । मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥ ३,२६.
ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या । निर्माति यस्माद्धरिरेव सर्वं सम्यक्पाता नियतोऽसौ मुरारिः ॥ ३,२६.
अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात् । निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥ ३,२६.
मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व । यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥ ३,२६.
सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व । मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥ ३,२६.
मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व । पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥ ३,२६.
न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च । न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥ ३,२६.
मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व । यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥ ३,२६.
यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति । अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥ ३,२६.
आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् । उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥ ३,२६.
चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा । ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥ ३,२६.
श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः । भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥ ३,२६.
स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः । तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥ ३,२६.
सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः । तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥ ३,२६.
आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये । एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् । वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥ ३,२६.
सुवर्णमुखरीतीरमारभ्य गरुडध्वजः । श्रीकृष्णवेणीपर्यन्तं स्थापयामास तं गिरिम् ॥ ३,२६.
गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम् । मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥ ३,२६.
अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले । गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥ ३,२६.
य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः । ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्नुयात् ॥ ३,२६.
पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति । यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥ ३,२६.
चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः । पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च । पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥ ३,२६.
शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः । वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥ ३,२६.
अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः । व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥ ३,२६.