तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः । आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र ॥ ३,२५.
आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम् । यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः ॥ ३,२५.
गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम् । मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय ॥ ३,२५.
जैगीष्व्य उवाच । शृणुष्व भद्रे वेङ्कटे शस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व ॥ ३,२५.
विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम् । ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम् ॥ ३,२५.
ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके । पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः ॥ ३,२५.
व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः । कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः ॥ ३,२५.
स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः । विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः ॥ ३,२५.
विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः । मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ३,२५.
सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः । लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः ॥ ३,२५.
लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः । दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः । अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ३,२५.
तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः । आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः ॥ ३,२५.
व्यङ्कटा इति संप्रोक्तास्तेषां नाशयिता प्रभुः । अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु ॥ ३,२५.
एवं व्यङ्कटामाहात्म्यं श्रुत्वा देवी खगेश्वर । निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च । ब्राह्मे मुहूर्ते चोत्थयि हृदि सस्मार कन्यका ॥ ३,२५.
(व्यङ्कटेशस्य प्रातः स्तुतिः) । श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः । श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३,२५.
श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः । नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३,२५.
दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः । श्रीरामदेवश्च अमोघवासः कुदृ ॥ ३,२५.
श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः । कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तुदृ ॥ ३,२५.
चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः । अमामहेद्रश्च शचीमुखास्ताः कुर्वन्तु दृ ॥ ३,२५.
द्वारावती काशिकावन्तिका च प्रयागकाञ्च्यौ मथुरापुरी च । मायावती हस्तिमती पुरी च कुर्वन्तु स दृ ॥ ३,२५.
भागीरथी चैव सरस्वती च गोदावरी सिंधुकृष्ण च वेणी । कलिन्दकन्या यमुना च नर्मदा कुर्व दृ ॥ ३,२५.
वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा । सुताम्रपर्णी च पिनाकिनी च कु दृ ॥ ३,२५.
स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा । श्रीपाण्डवी तौबरुश्च कपिला पापनाशनी ॥ ३,२५.
गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः । रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३,२५.
सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त । भूरादिकानि भुवनानि सप्त कुर्वन्तु स दृ ॥ ३,२५.
मान्धात्रा नहुषोंबरीषसगरौ राजा नलो धर्मराट्प्रह्लादः क्रतुराड्विभीषणगयौ व्यासो हनूमानपि । अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे ॥ ३,२५.
अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च । मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो ॥ ३,२५.
एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम् । स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक्तत्र चकार देशे । सम्यग्जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च ॥ ३,२५.
श्रीगरुडमहापुराणम् २६ कन्योवाच । श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे । शेषाचलोपि कुत्रा भूत्कदायातश्च पापहा । स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥ ३,२६.
जैगीषव्य उवाच शृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम् । आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥ ३,२६.