महालक्ष्मीर्मातरश्च पद्महस्तो (दिवाकरः) 45.
एतेऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते 45.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शालग्राममूर्त्तिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः
thumb|500px|वास्तुपुरुष thumb|500px|वास्तुपुरुषः. | वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् 46.
ईशाने च शिरः पादौ नैर्ऋतेऽग्न्यनिले करौ 46.
प्रासादारामदुर्गेषु देवालयमठेषु च 46.
ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः 46.
पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ 46.
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।। असुरः शेषपापौ (दौ) च रोगो।डहिमुख (ख्य) एव च ।। 46.
भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा 46.
ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः 46.
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् 46.
अर्य्यमा सविता चैव विवस्वान्विबुधाधिपः 46.
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः 46.
आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः 46.
नायिका कालिका नाम शक्राद्गन्धर्वगाः पुनः 46.
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् 46.
गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् 46.
उदगाश्रयं च वारुण्यां वातायनसमन्वितम् 46.
अभ्यागतालयं रम्यसशय्यासनपादुकम् 46.
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः 46.
प्राकारं तद्बहिर्दद्यात्पञ्चहस्तप्रमाणतः 46.
चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः 46.
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्त्तिताः 46.
चतुः षष्टिपदा देवा इत्येवं परिकीर्त्तिताः 46.
ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः 46.
अग्निजिह्वः कालकश्च करालो ह्योकपादकः 46.
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् 46.
कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् 46.
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् 46.