शुचिर्भूत्वा श्रीनिवासं च देवास्तुप्तुं विविशुः शुद्धभक्त्या खगेन्द्र । यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥ ३,२५.
तदा हरिं दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् । सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोभिरामम् ॥ ३,२५.
सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥ ३,२५.
मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् । पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥ ३,२५.
हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् । जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम् ॥ ३,२५.
दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका ॥ ३,२५.
तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा । ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण । आनन्द मां पाहि सुखं च दत्त्वा मुकुन्दा मां पाहि विमुक्तिदानात् ॥ ३,२५.
मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र । गोविन्द गोविन्द सुदुः खितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥ ३,२५.
जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा । हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥ ३,२५.
रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश । रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥ ३,२५.
एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् । लक्ष्म्या सदा येऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥ ३,२५.
तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ तेऽविदिता वै रमायाः । अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥ ३,२५.
तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् । रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥ ३,२५.
यदि प्रसन्नोसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव । त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥ ३,२५.
त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् । ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनागुर्वादिकेषु ॥ ३,२५.
मा देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् । त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥ ३,२५.
पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे । सद्वष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादरविन्दे ॥ ३,२५.
द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले । पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥ ३,२५.
विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले । सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥ ३,२५.
मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः । नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥ ३,२५.
इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च । अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥ ३,२५.
वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण । अन्तः स्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥ ३,२५.
एकारयुक्तं प्रथमान्तः स्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च । तकारसक्तं स्वर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥ ३,२५.
अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नान्त्र विचार्यमस्ति । एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥ ३,२५.
नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरः समीपे । तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥ ३,२५.
सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः । साकं भक्त्या संप्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥ ३,२५.
ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा । आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥ ३,२५.
ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव । ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥ ३,२५.
हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः । एवं वदन्ती प्रीणयन्ती च देवं जगामसा स्तोत्रवचः कदम्बैः ॥ ३,२५.
देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः । तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः ॥ ३,२५.