स्त्रीरूपेभ्यो नमनं कार्यमेव ईशान कोणस्थदलेषु चैव । ईशाननारायणमाविरिञ्चवायुर्वियच्छेषसुरादिकानाम् ॥ ३,२४.
स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे । अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायुर्वियच्छेषरुद्रादिकानाम् ॥ ३,२४.
स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूप भूतम् । सदा नमेच्छ्रीमदनन्तसंज्ञमेवं न मेच्छ्रीनिवासं च देवम् ॥ ३,२४.
श्रीनिवासस्य वामे तु लक्ष्मीं च प्रणमेद्वुधः । श्रीनिवासस्य सव्ये तु धरायै प्रणमेच्छुभे ॥ ३,२४.
पीठाद्वहिः पूर्वभागे कृपोल्कं प्रणमेच्छुभम् । महोल्कं दक्षिणे चैव वीरोल्कं पश्चिमे नमेत् ॥ ३,२४.
उत्तरे च नमः कुर्याद्युल्काय च महात्मने । चतुर्ष्वपि च कोणेषु सहस्रोल्कं नमेत्सुधीः ॥ ३,२४.
पूर्वे तु वासुदेवाय नमस्कुर्याच्च दक्षिणे । संकर्षणाय देवाय प्रद्युम्नाय च पश्चिमे ॥ ३,२४.
उत्तरे ह्यनिरुद्ध्या नमस्कुर्यादतन्द्रितः । आग्नेये च नमस्कुर्यात्कन्ये मायां सदा शुभे ॥ ३,२४.
जयायै च नमस्कुर्यान्नैरृत्ये चापि वायवे । कृत्ये चैव नमस्कुर्यादीशान्ये शान्तिसंज्ञकाम् ॥ ३,२४.
केशवाय नमः पूर्वे तथा नारायणाय च । माधवाय नमस्कुर्यान्नैरृत्ये चापि वायवे ॥ ३,२४.
आग्नेये कन्यके नित्यं भक्त्या तु प्रयतः शुभे । गोविन्दाय नमस्कुर्याद्दक्षिणे विष्णवे तथा ॥ ३,२४.
मधुसूदनाय भोः कन्ये नमस्कुर्यात्तु नैरृतौ । पश्चिमे त्रिविक्रमाय वामनाय तथैव च ॥ ३,२४.
विष्णवे श्रीधरायाथ नमस्कुर्याच्च भामिति । उत्तरे तु महाकन्ये हृषीकेशाय वै नमः ॥ ३,२४.
तथा वै पद्मनाभाय नमस्कुर्यादतन्द्रितः । दामोदराय चैशान्ये नमस्कुर्याच्च भामिनि ॥ ३,२४.
चतुर्थावरणे पूर्वे महाकूर्माय वै नमः । वराहाय नमस्कुर्यादाग्नेये कन्यके शुभे ॥ ३,२४.
दक्षिणे नारसिंहाय वामनाय नमोनमः । भार्गवाय नमस्कुर्यान्नैरृत्ये शुद्धचेतसा ॥ ३,२४.
पश्चिमे माधवायाथ तथा कृष्णाय वै नमः । बुद्धाय च नमस्कुर्याद्वायव्ये कन्यके शुभे ॥ ३,२४.
उत्तरे ह्युल्करूपाय अनन्ताय नमोस्तु ते । ईशान्ये विश्वरूपाय नमस्कुर्यादतन्द्रितः ॥ ३,२४.
आग्नेये वारुणीं चैव गायत्रीं चैव नैरृते । वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेत् ॥ ३,२४.
गिरिजां वामभागे तु सौपर्णै चैव संनमेत् । प्रागिन्द्राय नमस्कुर्यात्सायुधाय तथैव च ॥ ३,२४.
स परिग्रहाय श्रीविष्णोः पार्षदाय नमोनमः । आग्नेयेत्यग्नये तुभ्यं सायुधायेति पूर्ववत् ॥ ३,२४.
दक्षिणे तु यमायैव नैरृत्यां निरृतिं यजेत् । पश्चिमे वरुणायैव वायव्ये वायवे नमः ॥ ३,२४.
उत्तरे च कुबेराय ईशान्ये च शिवाय च । ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च ॥ ३,२४.
निरृत्यप्यतिमध्ये तु शेषाय च नमोनमः । एवं कृत्वा नमस्कारं प्रणमेच्च पुनः पुनः ॥ ३,२४.
इत्येतत्सर्वमाख्यातं विधिपूर्वं तु दर्शनम् । इतः परन्तु गन्तव्यं दर्शनार्थं रमापते ॥ ३,२४.
एवमुक्त्वा तु सा देवी तैः सार्धं तु ययौ मुदा । यदुक्तः श्रीनिवासस्य दर्शनस्य विधिः खग । कस्यचिन्नैव वक्तव्यो गोप्यत्वाच्च कदाचन ॥ ३,२४.
समागमो दुर्घट एव वीन्द्र सतां च सत्तत्त्वविबोधकानाम् । अनेकजन्मार्जितपुण्यसंचयादभूद्गुरोः संगम एव तस्य ॥ ३,२४.
पयो विकारं च निजं जहाति शेषस्य शेषं नलिनस्य षङ्कजम् । भावं चलं पङ्कजनाभयोगात्सत्संगयोगादशुभानि न स्युः ॥ ३,२४.
श्रीगरुडमहापुराणम् २५ सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् । स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥ ३,२५.
देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु । अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥ ३,२५.