अस्मिन्स्नानं ये प्रकुर्वन्ति तीर्थे तेषां ज्ञानं परमं दृढं स्यात् । अत्र स्नाने मानुषाणां च तात बुद्धिर्न हि स्यात्कलिकाले विशेषात् ॥ ३,२४.
दत्त्वां वरं दैत्यवराय विष्णुरन्तर्दधे जलपूर्णे सुकुण्डे । अद्याप्यास्ते जलमध्ये नृसिंहः प्रह्लादोपि दैत्यकुमारकैः सह ॥ ३,२४.
तस्मिन् सुतीर्थे परितस्तत्रतत्र जयेति शब्दः श्रूयते चापराह्ने । इदं तीर्थं नारसिंहाभिधं च कन्येस्नानं ह्यत्र कार्यं मनुष्यैः ॥ ३,२४.
स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यम् । द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः ॥ ३,२४.
मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविशत्तत्र देवी ह्युवाच । जैगीषव्यः श्रीनिवासस्य विष्णोः कथं कार्यं दर्शनं तद्वदस्व ॥ ३,२४.
जैगीषव्यः प्राह संहृष्टचित्तो ब्रवीमि तन्त्रं शृणु कन्यके त्वम् । श्रुत्वा मत्तः कुरु सर्वं मयोक्तमाद्यं द्वारं श्रीनिवासस्य दृष्ट्वा ॥ ३,२४.
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥ ३,२४.
मानसान्वाचिकान्दोषान्कायि कानपि सर्वशः । वैष्णवद्वेषहेतून्मे भस्मसात्कुरु माधव ॥ ३,२४.
आद्यद्वारं श्रीनिवासस्य देवि सम्यक्स्मरेद्विजयं वै जयं च । दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत्सम्यगेव ॥ ३,२४.
पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या । सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत्कुमुदाक्षं कुमुदन्तमेव ॥ ३,२४.
यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि । प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छ्रीनिवासम् ॥ ३,२४.
श्रीस्वामितीर्थे सम्यगाचम्य नत्वा स्नात्वा नत्वा भूवराहं च देवि । अयुद्वारं प्रिवशेद्भक्तिपृर्वं गोविन्दगोविन्द इतिब्रुवन्वै ॥ ३,२४.
पश्चाद्धरेर्नमनं कार्यमेव साष्टाङ्गरूपं प्रविशेद्देवगेहम् । पुनर्विशेद्वारतः संस्थितः स पीठस्थदेवान्मानसा चिन्तयीत ॥ ३,२४.
मध्ये पीठं श्रीनिवासं च देवी नारायणं प्रणमेत्पूर्णमेव । देवस्य सव्ये पीठभागाद्वहिश्च नमस्कार्यं गुरुदेवाय चैव ॥ ३,२४.
पीठस्याग्राच्चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र । नैरृत्यभागे व्यासदेवाय देवि नमस्कार्यो वैष्णवः सर्वदापि ॥ ३,२४.
वायव्यकोणे भक्तिपूर्वं सुदुर्गां नमस्कुर्याद्भक्तिसंवर्धितात्मा । पीठस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय ॥ ३,२४.
पीठस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवम् । पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैव रुद्रम् ॥ ३,२४.
पीठस्योर्ध्वं त्वीशकोणे च देवि ऐश्वर्याणामधिपं चेन्द्रदेवम् । पीठस्य पूर्वे प्रणमेन्नैरृतिं च अर्याम्णानामधिपं चात्र देवि ॥ ३,२४.
देवस्य पीठस्य च दक्षिणे च दुर्गां नमेदुग्ररूपाभिधां च । पीठस्य कन्ये प्रणमेत्पश्चिमे वै आरोग्याणा मधिपं कामदेवम् ॥ ३,२४.
देवस्य पीठस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरेच्च । पीठस्य मध्ये प्रणमेद्वै वराहं सदा कन्ये परमं पूरुषाख्यम् ॥ ३,२४.
तस्योपरिष्टाच्छक्तिसंज्ञां च लक्ष्मीमाधाररूपां प्रणमेच्चैव नित्यम् । तस्योपरिष्टाद्वायुकूर्मौ नमेच्च तस्योपरिष्टाच्छेषकूर्मौ नमेच्च ॥ ३,२४.
तस्योपरिष्टादभिमानिनीं भुवो भूदेवतां प्रणमेच्चैव सुभ्रूः । तस्योपरिष्टाद्वरुणं संस्मरेच्च क्षीरोदधेरधिपं चैव देवम् ॥ ३,२४.
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं श्वेतद्वीपाख्यं कन्यके पूजयेच्च । तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं महादिव्यां मण्डपसंज्ञकां च ॥ ३,२४.
पीठस्य मध्ये यमसंज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम् । यमस्य देवस्य च दक्षिणे च सूर्यं नमेद्दीपरूपं च भद्रे ॥ ३,२४.
यमस्य देवस्य च वामभागे श्रियं नमेद्दीपरूपां च देवीम् । यमस्य देवस्य तु चाग्रभागे हुताशनं दीपरूपं नमेच्च ॥ ३,२४.
देवस्याग्रे भूमिनाम्नीं नमेच्च तत्त्वाभिमानां संस्मरेच्चैव नित्यम् । पर्यङ्करूपं श्रीनिवासस्य विष्णोस्तमोभिमानां सन्नमेच्चैव दुर्गाम् ॥ ३,२४.
पूर्वादिगं पीठसोपानरूपमात्मानमेकं प्रणमेच्च देवि । दक्षस्थदिक्पीठसोपानरूपं ज्ञानात्मकं प्रणमेच्चैव कन्ये ॥ ३,२४.
पद्मस्य पूर्वस्थदले च देवि स्त्रीरूपाख्यं विमलाख्यामिमां च । ब्रह्मादिदेवान्प्रणमेच्च देवि आग्नेयकोणस्थदले शृणुत्वम् ॥ ३,२४.
उत्कर्षनाम्नीं परमां च देवीं नमेद्रमां ब्रह्मवायू च शेषम् । दक्षस्थपद्मस्य दलाष्टके च नारायणाकारशेषादिकानाम् ॥ ३,२४.
स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्थे दले च । गोपाख्यनारायणब्रह्मवायुविप्रादिकानां शेषरूद्रादिकानाम् ॥ ३,२४.