अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः । पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥ ३,२४.
सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि । साष्टाङ्गरुपं वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥ ३,२४.
गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव । अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥ ३,२४.
पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः । ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥ ३,२४.
ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये । येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥ ३,२४.
मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै । ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥ ३,२४.
नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा । एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥ ३,२४.
गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम् । सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥ ३,२४.
हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम । द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥ ३,२४.
इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद । श्रीकृष्ण उवाच । भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी । यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥ ३,२४.
रमाश्रयत्वान्नितरां सर्वदा चेत्यतो हरिः श्रीनिवासाभिधानः । भो श्रीनिवासेति तु नर्तयन्तो रोमाञ्चमात्रास्तलशब्दकारिणः ॥ ३,२४.
अद्यैव पश्याम हरेस्तवास्यं कदा वयं कृत कृत्या भवामः । भोः केशवाद्यैव पदारविन्दं संदर्शयित्वा सुदयां कुरुष्व ॥ ३,२४.
ब्रह्माणमाहुश्च पुराणमाहुः कशब्दवाच्यं सर्वलोकेशमाहुः । ईशं चार्हं रुद्रमित्येव चाहुस्तत्प्रेरकं सृष्टिसंहारकार्ये ॥ ३,२४.
अतो हरिः केशवनामधेयो भोः केशवेति च नर्तयन्तः । आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायणेति प्रवदन्तो हि जग्मुः ॥ ३,२४.
अतो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्मुरारिः । नारायणेति प्रवदन्तीह लोके नारानुबन्धात्सर्वमुक्ताः खगेन्द्र ॥ ३,२४.
नाराः प्रोक्ता आश्रयत्वाच्च तेषामतोपि नारायण एव वीन्द्र । मुक्ताश्च ये तु प्रपदंनु जग्मुरण्डोदकं यस्य कटाक्षमात्रात् ॥ ३,२४.
यदुत्पन्नं तेन नाराः खगेन्द्र तेषां सदाप्याश्रयत्वाच्च वीन्द्र । नारायणेति प्रवदन्तीह लोके ह्यनन्तब्रह्माण्डविसर्जकत्वात् ॥ ३,२४.
एवं ननृतुः परिशंसयन्तो गोविन्द नान्यो हि न चैव दर्शनम् । गोशब्दवाच्यास्तु समस्तवाचो गोभिश्च सर्वैः प्रतिपाद्यते यतः ॥ ३,२४.
अतो हि गोविन्द इति स्मृतः सदा भो वेदवेद्येति तथा न ननृतुः । आनन्दबाष्पैश्च समन्विता हि हरे मुरारे तव दर्शनं हि ॥ ३,२४.
देहि प्रभो वै तवदासदासाश्चतुर्दशे भुवने सर्वदापि । यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं क्रीडते सर्वदैव ॥ ३,२४.
यतो देवेत्येवमाहुर्महान्तस्त्वतो हरिं वासुदेवेति चाहुः । भो वासुदेवेति ननृतुः सर्वदैव भो माधवेति ननृतुश्चैव सर्वे ॥ ३,२४.
लक्ष्मीपते चेति वदन्ति सर्वे धनीति शब्दः स्वाभिवाची यतो हि । अतोप्यार्या माधवेति ब्रुवन्ति लक्ष्मीपते पाहि तथैव भक्तान् ॥ ३,२४.
ते वै ब्रुवन्तो ननृतुश्च जग्मुर्विष्णो सदास्मान्परिपाहि नित्यम् । सर्वत्र यस्माद्विततोसि तस्मादित्यादिनामानि गृणन्त एव । जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेताः श्रीनिवासं स्मरन्तः ॥ ३,२४.
कन्योवाच । किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान्कृतीश । कस्मै प्रसन्नो भगवाञ्छ्रीनिवासस्त्वस्मिन्सुतीर्थं वद विस्तरेण ॥ ३,२४.
जैगीषव्य उवाच । कन्ये शृणु त्वं ह्यभवत्सुबुद्धिमान्प्रह्रादसंज्ञो हरिभक्तवर्यः । निष्कामबुद्ध्या तु यदा जगाम शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ॥ ३,२४.
अस्मिंस्थले दैत्यकुमारकान्प्रति हरेश्च तत्त्वं परिपृष्टवान्प्रभुः । नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभं मानुषं जन्म कन्ये ॥ ३,२४.
तत्रापि विष्णोर्नृहरे सुतत्त्वं सुदुर्लभं सुष्ठु यात्रा तथैव । यस्यां यात्रायां यत्र कुत्रापि देशे हरेः कथा वर्तते दैत्यवर्याः ॥ ३,२४.
तत्र स्थले हरिरास्ते सदैव यतो व्याप्तः सर्वतो वै नृसिंहः । एतच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च ॥ ३,२४.
व्याप्तो हरिश्चेत्कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः । स एवमुक्तो दानवानां सुतैश्च तुष्टाव विष्णुं परमादरेण ॥ ३,२४.
तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुतानाम् । इति स्तुतः श्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायात् ॥ ३,२४.