तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव । नच द्वेषैः संयुता ये च लोके कन्ये दृश्यन्ते न तु भक्ताः कदाचित् ॥ ३,२४.
कन्योवाच । जैगीषव्य ब्रूहि मे के च भक्ता भक्तिं कथं दर्शयामासुरेते । तेषां हरिः श्रीनिवासो महात्मा त्राता सदा भक्तवर्गे दयालुः ॥ ३,२४.
जैगीषव्यस्त्वेवमुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः । जैगीषव्य उवाच । प्रहादाद्या श्रीनिवासस्य भक्ताः कृत्वा नृसिंहे चोत्तमां भक्तिमेव ॥ ३,२४.
अवाप साम्राज्यमनुत्तमं च ज्ञानं नृसिंहात्समवाप पश्चात् । पराशरः श्रीनिबासस्य भक्तो भक्तिं कृत्वा व्यासरूपं हरिं च ॥ ३,२४.
स्तुत्वा तेन ज्ञानतत्त्वं ह्यवाप्य जगाम मोक्षं भक्तिसंवर्धितात्मा । यो नारदः श्रीनिवासस्य भक्तो भक्तिं कृत्वा गर्भवासे हरौ च ॥ ३,२४.
तया भक्त्या ब्रह्मपुत्रत्वमाप ज्ञानप्राप्त्या तेन मुक्तिं जगाम । यो ह्यंबरीषः श्रीनिवासस्य भक्तः कृत्वा भक्तिं परदेव हरौ च ॥ ३,२४.
जप्त्वा ज्ञानं प्राप्य दुर्वासकश्चाप्यवाप मोक्षं तेन संवर्धितात्मा । मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यतो भक्तिदार्ढ्यं च कृत्वा ॥ ३,२४.
तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवाप मोक्षं तेन संवर्धितात्मा । स पुण्डरीकः श्रीनिवासस्य भक्तः पित्रादिष्टो विष्णुभक्तिं च कृत्वा ॥ ३,२४.
हरिप्रासादाज्ज्ञानमनुत्तमं चाप्यवाप मोक्षं भक्तिसंवर्धितात्मा । ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्याः सर्वे ऋजुयोगिनश्च ॥ ३,२४.
अच्छिन्नभक्ताश्च सदा मुरारेर्न काम्यरक्ताः शुद्धरूपा हि ते च । गिरीशनागेशखगेशसंज्ञा देवाः शुक्रारौ गुरुचन्द्रेन्दुसूर्याः ॥ ३,२४.
जलेशोग्निर्मनुधर्मौ कुबेरः विघ्नेशनासत्यमरुद्गणाश्च । पर्जन्यमित्रादय एव सर्वे सदा ह्येते श्रीनिवासस्य भक्ताः ॥ ३,२४.
विश्वामित्रो भृगुरौर्वश्च कुत्सो मरीचिरत्रिः पुलहः क्रतुश्च । शक्तिर्वसिष्ठो सौतमीयो पुलस्त्यो भारद्वाजः श्रीनिवासस्य भक्ताः ॥ ३,२४.
मान्धाता नहुषोंबरीषसगरौ राजा पृथुर्हैहयो इक्ष्वाकुर्भरतो ययातिसुतलौ धर्मो विकुक्षिस्तथा । उत्तानश्च बिभीषणो दशरथो ह्येते महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ताः सदा संस्मृताः ॥ ३,२४.
भागीरथी समुद्रश्च यमुना च सरस्वती । गोदावरी नर्मदा च कृष्णा भीमरथी तथा ॥ ३,२४.
सरयूफल्गुकावेरीगण्डकी कपिला स्तथा । इत्येताश्च हरेर्भक्ताः संति चात्रैव भामिनि ॥ ३,२४.
अभिप्रायं तत्र वक्ष्ये शृणु कन्ये मया सति । यत्र प्रवर्तते मार्गे कथा विष्णोर्महात्मनः ॥ ३,२४.
वर्तन्ते वैष्णवा यत्र हरितत्त्वार्थबोधकाः । तत्रैव भक्ताः सर्वेपि संति विष्णोस्तथैव च ॥ ३,२४.
ये देवयात्रां परमात्मचिन्तया कुर्वन्ति ते हरिभक्ताश्च नान्ये । यतो हरौ परमे वैष्णवानां सर्वं निष्ठामेति कृत्यं खगेन्द्र ॥ ३,२४.
शेषाचलं समासाद्य ह्यन्नवस्त्रादिभूषणम् । यो न दद्यादभक्तः स ततः को नु परः पशुः ॥ ३,२४.
भक्ता हरेः श्रीनिवासाचले च गङ्गादिरूपेण च तत्रतत्र । तिष्ठन्ति सेवार्थमुरुक्रमस्य तेषां पूजा नैव कार्या च देवि ॥ ३,२४.
अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः । पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥ ३,२४.
सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि । साष्टाङ्गरुपं वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥ ३,२४.
गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव । अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥ ३,२४.
पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः । ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥ ३,२४.
ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये । येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥ ३,२४.
मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै । ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥ ३,२४.
नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा । एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥ ३,२४.
गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम् । सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥ ३,२४.
हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम । द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥ ३,२४.
इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद । श्रीकृष्ण उवाच । भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी । यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥ ३,२४.