शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव । कटिं कदा श्रीनिवासस्य द्रक्ष्ये भूर्लोकस्याश्रयं सर्वदैव ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य चोरु तलातलस्याश्रयं सर्वदैव । कदा द्रक्ष्ये श्रीनिवासस्य जानु सुकोमलं सुतलस्याश्रयं च ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रयेः सर्वदैव । कदा द्रक्ष्ये पादतलं हरेश्च पाताललोकस्याश्रयं सर्वदैव ॥ ३,२३.
इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श । फणैः सहस्रैः सुविराजमानं नानाद्रुमैर्वानरैर्वानरीभिः ॥ ३,२३.
अनन्त जन्मार्जितपुण्यसंचयान्मयाद्य दृष्टः परमाचलो हि । तद्दर्शनाद्वाष्पकलाकुलेक्षणा सद्यः समुत्थाय ननाम मूर्ध्ना ॥ ३,२३.
मुखं च दृष्ट्वा नमनं च कार्यं पृष्ठादिभागे नमनं न कार्यम् । सापि द्विषट्कं नमनं च चक्रे शालग्रामं स्थापयित्वा पुरोऽस्य ॥ ३,२३.
इत्थं कार्यं वैष्णवैः पर्वतस्य त्वं वैष्णवैर्विपरीतं च कार्यम् । मध्वान्तःस्थः पर्वताग्रेस्ति नित्यं रमाब्रह्माद्यैः पूजितः श्रीनिवासः ॥ ३,२३.
सुसत्तमं परमं श्रीनिवासं द्रक्ष्येऽथाहं ह्यारुरुक्षेऽचलञ्च । इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव ॥ ३,२३.
अत्रैवास्ते श्रीनिवासो हरिस्तु द्रव्येण रूपेण न चान्यथेति । आदौ स्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुतीर्थे ॥ ३,२३.
गोभूहिरण्यादिसमस्तदानं दत्त्वा शैलं चारुरोहाथ साध्वी । शालग्रामं स्थापयित्वा स चाग्रे पुनः प्रणामं सापि चक्रे सुभक्त्या ॥ ३,२३.
सोपानानां शतपर्यन्तमेवमारुह्य सा ह्युपविष्टा तु तत्र । शुश्राव सा भागवतं पुराणं शुश्राव वै वेङ्कटाद्रेः प्रशंसाम् ॥ ३,२३.
जैगीषव्याद्गुरुपादात्सुभक्त्या सुश्राव तत्त्वं वेङ्कटाद्रेश्च सर्वम् ॥ ३,२३.
श्रीगरुडमहापुराणम् २४ जैगीषव्य उवाच । कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणेऽस्य । श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥ ३,२४.
पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः । तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥ ३,२४.
सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा । तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥ ३,२४.
सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र । नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥ ३,२४.
सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव । तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥ ३,२४.
स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी । कन्योवाच । जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.
जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु । उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.
अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः । ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥ ३,२४.
सहस्रसूर्याधिककान्तिकान्तः सविद्युत्त्वान्मानुषाणां रमेशः । ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु ॥ ३,२४.
नक्षत्रवद्दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु । स सूर्यवद्दृश्यते श्रीनिवासः संसारिणां वेङ्कटेशः खगेन्द्र ॥ ३,२४.
संदोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः । पाषाणवन्नैल्यरूपप्रकाशः शिलामात्रे दृष्यते वै कलौ च ॥ ३,२४.
नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी । न मानुषाः प्रविजानन्ति सर्वे यतः कलौ तामसा राजसास्तु ॥ ३,२४.
तत्संगिनः सात्त्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च । ये दृश्यन्ते भक्तवत्ते न भक्ताः शिश्रोदरयोर्भरणे चैव सक्ताः ॥ ३,२४.
कुर्वन्ति यात्रां च तदर्थमेव भक्तिज्ञानं दुर्लभं वै कलौ च । भक्ता ये वै न विरक्ताः सदैव तेषां हरेर्दर्शनं दुर्लभं च ॥ ३,२४.
भक्तस्वरूपं तव वक्ष्ये खगेन्द्र यो ज्ञानपूर्णः परमे स्निग्ध एव । न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्छृणु वक्ष्ये च सम्यक् ॥ ३,२४.
जीवाभिदा हरिणाप्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यम् । ज्ञानानन्दैः परिपूर्णे हरौ च गुणैरपूर्णो हरिरित्येव चिन्ता ॥ ३,२४.
श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानां संमानायाश्च चिन्ता । विष्णोः सकाशाद्ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव ॥ ३,२४.
विष्णोर्भद्रे हस्तपादादिकानां भेदज्ञानं द्वेषमाहुर्महान्तः । अवताराणा छेदभेदादिकं च तथोच्यते मरणस्यापि चिन्ता ॥ ३,२४.