तत्र द्विजान्पूजयित्वान्नपान रात्रौ तत्त्वं श्रावयामास देवी । एवं यात्रां ये प्रकुर्वन्ति नित्यं तेषां यात्रां सफलां प्राहुरार्याः ॥ ३,२३.
विना दयां तीर्थयात्रा खगेन्द्रव्यर्थेत्येवं वीन्द्र चाहुर्महान्तः । दिवा रात्रौ ये न शृण्वन्ति दिव्यां हरेः कथां तीर्थमार्गे खगेन्द्र ॥ ३,२३.
व्यर्थंव्यर्थं तस्य चाहुर्गतं वै अश्वादीनां वाहनानां च विद्धि । अश्वादीनामपराधं वदस्व गङ्गादीनां दर्शनात्पापनाशः ॥ ३,२३.
क्षेत्रस्थविष्णोर्दर्शनात्पापनाशो मार्जारस्याप्यपराधं वदस्व । क्षेत्रस्थविष्णोः पूजनात्पापनाशः पूजावतामपराधं वदस्व ॥ ३,२३.
जपादीनां कुर्वतां पापनाशो विष्णोर्ध्यानात्सद्य एवाघनाशः । अनुसंधानाद्रहितं सर्वमेव कृतं व्यर्थमेवेति चाहुः ॥ ३,२३.
अतो हरेः पापविनाशिनीं कथां श्रुत्वा विष्णोर्भक्तिमान्स्यात्खगेन्द्र । दृष्ट्वादृष्ट्वा हरिपादाङ्कितं च स्मृत्वास्मृत्वा भक्तिमान्स्यात्खगेन्द्र ॥ ३,२३.
पित्रा साकं कन्यका सापि वीन्द्र शेषाचलस्थं श्रीनिवासं च द्रष्टुम् । जगाम सा मार्गमध्ये हरिं च सा चिन्तयामास रमापतिं च ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य वक्षः श्रीवत्सरत्नैर्भूषितं विस्तृतं च । कदा द्रक्ष्ये श्रीनिवासस्य तुन्दं वलित्रयेणाङ्कितं सुंदरं च ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य कण्ठं महर्लोकस्याश्रयं कंबुतुल्यम् । कदा द्रक्ष्ये श्रीनिवासस्य नाभिं सदान्तरिक्षस्याश्रयं वै सुपूर्णम् ॥ ३,२३.
कदा द्रक्ष्ये वदनं वै मुरारेर्जनलोकस्याश्रयं सर्वदैव ॥ ३,२३.
शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव । कटिं कदा श्रीनिवासस्य द्रक्ष्ये भूर्लोकस्याश्रयं सर्वदैव ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य चोरु तलातलस्याश्रयं सर्वदैव । कदा द्रक्ष्ये श्रीनिवासस्य जानु सुकोमलं सुतलस्याश्रयं च ॥ ३,२३.
कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रयेः सर्वदैव । कदा द्रक्ष्ये पादतलं हरेश्च पाताललोकस्याश्रयं सर्वदैव ॥ ३,२३.
इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श । फणैः सहस्रैः सुविराजमानं नानाद्रुमैर्वानरैर्वानरीभिः ॥ ३,२३.
अनन्त जन्मार्जितपुण्यसंचयान्मयाद्य दृष्टः परमाचलो हि । तद्दर्शनाद्वाष्पकलाकुलेक्षणा सद्यः समुत्थाय ननाम मूर्ध्ना ॥ ३,२३.
मुखं च दृष्ट्वा नमनं च कार्यं पृष्ठादिभागे नमनं न कार्यम् । सापि द्विषट्कं नमनं च चक्रे शालग्रामं स्थापयित्वा पुरोऽस्य ॥ ३,२३.
इत्थं कार्यं वैष्णवैः पर्वतस्य त्वं वैष्णवैर्विपरीतं च कार्यम् । मध्वान्तःस्थः पर्वताग्रेस्ति नित्यं रमाब्रह्माद्यैः पूजितः श्रीनिवासः ॥ ३,२३.
सुसत्तमं परमं श्रीनिवासं द्रक्ष्येऽथाहं ह्यारुरुक्षेऽचलञ्च । इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव ॥ ३,२३.
अत्रैवास्ते श्रीनिवासो हरिस्तु द्रव्येण रूपेण न चान्यथेति । आदौ स्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुतीर्थे ॥ ३,२३.
गोभूहिरण्यादिसमस्तदानं दत्त्वा शैलं चारुरोहाथ साध्वी । शालग्रामं स्थापयित्वा स चाग्रे पुनः प्रणामं सापि चक्रे सुभक्त्या ॥ ३,२३.
सोपानानां शतपर्यन्तमेवमारुह्य सा ह्युपविष्टा तु तत्र । शुश्राव सा भागवतं पुराणं शुश्राव वै वेङ्कटाद्रेः प्रशंसाम् ॥ ३,२३.
जैगीषव्याद्गुरुपादात्सुभक्त्या सुश्राव तत्त्वं वेङ्कटाद्रेश्च सर्वम् ॥ ३,२३.
श्रीगरुडमहापुराणम् २४ जैगीषव्य उवाच । कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणेऽस्य । श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥ ३,२४.
पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः । तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥ ३,२४.
सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा । तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥ ३,२४.
सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र । नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥ ३,२४.
सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव । तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥ ३,२४.
स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी । कन्योवाच । जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.
जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु । उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.
अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः । ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥ ३,२४.