त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च । हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे
एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी । सपर्यया वै क्रियमाणया हरिः पतिर्मम स्यादिति चिन्तयाना
तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता । स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा
पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी । तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि
श्रीगरुडमहापुराणम् २३ श्रीकृष्ण उवाच । सोमस्य पुत्री पूर्वसर्गे बभूव भार्या मदीया जाम्बवती मम प्रिया । तासां मध्ये ह्यधिका वीन्द्र किञ्चिद्रुद्रादिभ्यः पञ्चगुणैर्विहीना ॥ ३,२३.
यदावेशो बलवान्स्याद्रमायां तदानास प्रियते केशवोलम् । यदावेशाद्ध्रासमुपैति काले तदा तासां साम्यमाहुर्महान्तः ॥ ३,२३.
लक्ष्म्यावेशः किञ्चिदस्त्येव नित्यमतस्ताभ्यः किञ्चिदाधिक्यमस्ति ॥ ३,२३.
गरुड उवाच । तासां मध्ये जाम्बवन्ती तु कृष्ण आराधनं कीदृशं सा चकार । तन्मे ब्रूहि कृपया विश्वमूर्ते आधिक्ये वै कारणं ताभ्य एव ॥ ३,२३.
गरुडेनैवमुक्तस्तु भगवान् देवकीसुतः । मेघगंभीरया वाचा उवाच विनतासुतम् ॥ ३,२३.
श्रीकृष्ण उवाच । या पूर्वसर्गे सोमपुत्री बभूव पितुर्गृहे वर्तमानापि साध्वी । जन्म स्वकीयं सार्थकं वै चकार पित्रा साकं विष्णुशुश्रूषणे न च ॥ ३,२३.
शुश्राव नित्यं सत्पुराणानि चैवं चक्रे सदा विष्णुपादप्रणामम् । चक्रे सदा तारकस्यापि विष्णोः प्रदक्षिणं स्मरणं कुर्वती सा ॥ ३,२३.
पित्रा साकं सा तु कन्या खगेन्द्र वैराग्ययुक्ता श्रवणात्संबभूव । केशं च मित्रं द्विरदादिकं च अनर्घ्यरत्नानि गृहादिकं च ॥ ३,२३.
सर्वं ह्येतन्नश्वरं चैव मेने ममाधीनं हरिणा वै कृतं च । येनैव दत्तं पुत्रमित्रादिकं च तेना हृतं वेदनां नैव चक्रे ॥ ३,२३.
अद्यैव विष्णुः परमो दयालुः दयां मयि कृतवांस्तेन सुष्ठु । पित्रा साकं कन्यका सा तु वीन्द्र सदात्मनि ह्यमले वासुदेवे ॥ ३,२३.
एकान्तत्वं सुष्ठु भक्त्या गता सा यदृच्छया सोपपन्नेन देवी । अकल्पयन्त्यात्मनो वीन्द्र वृत्तिं चकार यत्सावधिराधं प्रथैव ॥ ३,२३.
सा वै वित्तं विष्णुपादारविन्दे दुः खार्णवात्तराके संचकार । वागीन्द्रिद्रियं खग सम्यक्चकार हरेर्गुणानां वर्णने वा सदैव ॥ ३,२३.
हस्तौ च विष्णोर्गृहसंमार्जनादौ चकार देवी गात्रमलापहारम् । श्रोत्रं च चक्रे हरिसत्कथोदये मोक्षादिमार्गे ह्यमृतोपमे च ॥ ३,२३.
नेत्रं च चक्रे प्रतिमादिदर्शने अनादिकालीनमलापहरिणी । सद्वैष्णवानां स्पर्शने चैव संगे निर्माल्यगन्धानुविलेपने त्वक् ॥ ३,२३.
घ्रार्णेद्रियं सा हरिपादसारे चकार संसारविमुक्तिदे च । जिह्वेन्द्रियं हरिनैवेद्यशेषे श्रीमत्तुलस्यादिविमिश्रिते च ॥ ३,२३.
पादौ हरेः क्षेत्रपथानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं हृदास्ये तु हरिदास्यकाम्या तथोत्तमश्लोकजनाश्चरन्ति ॥ ३,२३.
निष्कामरूपे च मतिं चकार वागिन्द्रियं स्तवनं स्वीचकार । एवं सदा कार्यसमूहमात्मना समर्पयित्वा परमेशपादयोः ॥ ३,२३.
तीर्थाटनार्थं तु जगाम पित्रा साकं हरेः प्रीणनाद्यर्थमेव । आराधयित्वा ब्राह्मणान्विष्णुभक्तानादौ गृहे वस्त्रसंभूषणाद्यैः ॥ ३,२३.
पश्चात्कल्पं कारयामास देवी विष्णोरग्रे तीर्थयात्रार्थमेव । यावत्कालं तीर्थयात्रा मुकुन्द तावत्कालं तूर्ध्वरेता भवामि ॥ ३,२३.
यावत्कालं तीर्थयात्रां करिष्ये तावद्दत्ताद्वैष्णवानां च संगम् । हरेः कथाश्रवणं स्यान्मुकुन्द नावैष्णवानां संगिनामङ्गसंगम् ॥ ३,२३.
सुहृज्जनैः पुत्रमित्रादिकैश्च दीर्थाटनं नैव कुर्यां मुकुन्द । कुर्वन्ति ये काम्यया तीर्थयात्रां तेषां संगं कुरु दूरे मुकुन्द ॥ ३,२३.
शालग्रामं ये विहायैव यात्रां कुर्वन्ति तेषां किं फलं प्राहुरार्याः । यदा तीर्थानां दर्शनं स्यात्तदैव शालग्रामं पुरतः स्थापयित्वा ॥ ३,२३.
तीर्थाटनं पादचैरैः कृतं चेत्पूर्णं फलं प्राहुरार्याः खगेन्द्र । पादत्राणं पादरक्षां च कृत्वा तीर्थाटनं पादहीनं तदाहुः ॥ ३,२३.
यो वाहने तुरगे चोपविष्टस्तीर्थाटनं कुरुते चार्धहीनम् । वृषादीनां वाहने पादमाहुः परान्नानां भोजने व्यर्थमाहुः ॥ ३,२३.
महात्मनां वेदविदां यतीनां परान्नानां भोजने नैव दोषः । संकल्पयित्वा परमादरेण जगाम सा तीर्थयात्रार्थमेव ॥ ३,२३.
आदौ स्नात्वा हरिनिर्मात्यगन्धं विसर्जयित्वा श्रवणं वै चकार । पित्रा साकं भोजनं चापि कृत्वा अग्रे दिने क्रोशमेकं जगाम ॥ ३,२३.