हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेधिकं च । चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च
नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च । त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता
भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च । तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम
द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः । तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः
तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः । एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः
अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः । मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग
सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः । तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः
तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः । तैः पञ्चदशभिश्चैव युक्तोग्रेज्येष्ठपुत्रकः
तैः सप्तदशभिर्दोषैः संयुक्तो नात्र संशयः । तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता
तथाष्टादशभिर्दोषैः संयुता नात्र संशयः । तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु
दोषैरेकोनविंशत्या संयुतो नात्र संशयः । शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः
लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः । एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः
दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग । त्रयोविंशतिदोषैश्च संयुता नात्र संशयः
अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः । दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः
सप्तलक्षणसंयुक्ता गन्धर्वा मानुषात्मकाः । यैस्तु पञ्चविंशतिभिर्दोषैः संयुक्ताः प्रकीर्तिताः
षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः । तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च
त्रिभिः केच्चित्ततो हीना न संति खगसत्तम । यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य
न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव । ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप
लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः । लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग
अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि । पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र
उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु । सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च
अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति । हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम्
बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च । गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै
मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च । पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव
गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च । एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव
गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण । एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव
गोविन्दाख्यस्तिष्ठति वैष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः । मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति
गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः । संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव
जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु । मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण
गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः । नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव