वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते । श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः
हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् । अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम्
दुर्लक्षणं त्वेवमादि कलावस्ति ह्यनेकशः । सुलक्षणान्यनेकानि मयि संति खगेश्वर
द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् । सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो
ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम । मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते
रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् । अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः
भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च । भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः
न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर । षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना
कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति । इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः
हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेधिकं च । चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च
नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च । त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता
भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च । तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम
द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः । तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः
तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः । एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः
अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः । मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग
सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः । तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः
तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः । तैः पञ्चदशभिश्चैव युक्तोग्रेज्येष्ठपुत्रकः
तैः सप्तदशभिर्दोषैः संयुक्तो नात्र संशयः । तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता
तथाष्टादशभिर्दोषैः संयुता नात्र संशयः । तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु
दोषैरेकोनविंशत्या संयुतो नात्र संशयः । शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः
लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः । एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः
दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग । त्रयोविंशतिदोषैश्च संयुता नात्र संशयः
अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः । दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः
सप्तलक्षणसंयुक्ता गन्धर्वा मानुषात्मकाः । यैस्तु पञ्चविंशतिभिर्दोषैः संयुक्ताः प्रकीर्तिताः
षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः । तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च
त्रिभिः केच्चित्ततो हीना न संति खगसत्तम । यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य
न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव । ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप
लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः । लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग
अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि । पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र