लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना । नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके
जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः । एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर
दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् । महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः
अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः । लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः
दीर्घजङ्घो दीर्घशिश्नस्त्वेकाण्डश्चैकनासिकः । रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः
दग्धपर्वतसंकाशो रक्तपृष्ठः कलिः स्मृतः । अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः
ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग । क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः
अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ । ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके
ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ । सर्पाकारस्तु यो मत्स्यस्तस्य शिश्ने प्रकीर्तितः
पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः । शिश्नाकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते
वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते । श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः
हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् । अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम्
दुर्लक्षणं त्वेवमादि कलावस्ति ह्यनेकशः । सुलक्षणान्यनेकानि मयि संति खगेश्वर
द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् । सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो
ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम । मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते
रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् । अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः
भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च । भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः
न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर । षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना
कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति । इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः
हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेधिकं च । चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च
नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च । त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता
भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च । तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम
द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः । तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः
तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः । एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः
अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः । मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग
सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः । तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः
तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः । तैः पञ्चदशभिश्चैव युक्तोग्रेज्येष्ठपुत्रकः
तैः सप्तदशभिर्दोषैः संयुक्तो नात्र संशयः । तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता
तथाष्टादशभिर्दोषैः संयुता नात्र संशयः । तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु