कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः । यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः
समुन्नतं शिश्नमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति । सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः
निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्रीवारूपं प्राहुरष्टादशं च । एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव
विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः । त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विंशं सुप्रसन्ने च दृष्टी
ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति । समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे
समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः । द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम्
द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् । तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे
एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे । अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव
जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र । स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि
खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व । अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः
अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् । अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र
अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् । अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्नोदरे किञ्चिदाधिक्यमस्ति
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः । षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः
अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः
प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः । पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः
वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः । चतुर्दशैस्तु(चतुर्विंशैस्तु?) धनपः पावकस्तु त्रयोदशैः
गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः । शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः
अथ षोडशसाहस्रं भार्यास्तु मम वल्लभाः । अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा
षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः । चतुर्भिः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः
उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः । शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च
लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना । नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके
जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः । एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर
दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् । महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः
अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः । लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः
दीर्घजङ्घो दीर्घशिश्नस्त्वेकाण्डश्चैकनासिकः । रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः
दग्धपर्वतसंकाशो रक्तपृष्ठः कलिः स्मृतः । अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः
ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग । क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः
अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ । ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके
ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ । सर्पाकारस्तु यो मत्स्यस्तस्य शिश्ने प्रकीर्तितः
पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः । शिश्नाकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते