यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः । लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः ॥ ३,२१.
न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि । न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा ॥ ३,२१.
न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव । आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे ॥ ३,२१.
तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग । दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम् ॥ ३,२१.
हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि । एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव ॥ ३,२१.
आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे । ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक् ॥ ३,२१.
तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः । पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र ॥ ३,२१.
मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र । तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा ॥ ३,२१.
शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च ॥ ३,२१.
श्रीगरुडमहापुराणम् २२ श्रीकृष्ण उवाच । या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः । सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र
यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः । यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा
यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा । गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि
तस्मादाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र । नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि
संत्येव पक्षीन्द्र वदाम्यनुक्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् । यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः
य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः । मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः
हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् । यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम्
यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः । यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च षष्ठम्
यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः । यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या
यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः । यस्योदरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च
तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः । ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः
कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः । यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः
समुन्नतं शिश्नमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति । सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः
निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्रीवारूपं प्राहुरष्टादशं च । एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव
विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः । त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विंशं सुप्रसन्ने च दृष्टी
ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति । समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे
समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः । द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम्
द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् । तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे
एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे । अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव
जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र । स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि
खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व । अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः