अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर । पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन ॥ ३,२१.
न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च । न तु स्मृतं हरितत्त्वामृतं च सम्यक्श्रुतं लोलवार्तादिकं च ॥ ३,२१.
न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च । न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः ॥ ३,२१.
न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च । पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे ॥ ३,२१.
सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि । न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम् ॥ ३,२१.
सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः । सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.
अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः । तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.
अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः । न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द ॥ ३,२१.
अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः । अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द ॥ ३,२१.
दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च । नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम् ॥ ३,२१.
दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रतीकम् । मया कृतं पापजातं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द ॥ ३,२१.
मदीयदोषान्गणयन्न पूर्ण दयां कुरु त्वं सुद्धदास्यान्मुकुन्द । यावन्ति लोमानि मदीयगात्रे संति प्रभो सर्वदोर्षर्विदूर ॥ ३,२१.
तावन्ति पापानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द । अनन्तदेहे पतिपुत्रैर्गृहैश्च मित्रैर्धनैः पशुभृत्यादिकैश्च ॥ ३,२१.
सुखं नाप्तं ह्यपुमात्रं मुकुन्द सेवा मुक्ता तव देवस्य विष्णोः । इतः परं पुत्रमित्रादिकं च यास्ये नाहं तव दासी भवामि ॥ ३,२१.
येये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक्सुखं जायते मर्त्यलोके । तेषामास्ये मूत्रविष्ठादिकं च सम्यक्सदा पतितं चेति जाने ॥ ३,२१.
मित्रादीनां यत्कृतं द्रव्यजातं वृथा गतं मलरूपं च जातम् । सद्वैष्णवानां यत्कृतं द्रव्यजातं हरिप्राप्तेः कारणं स्यात्सदैव ॥ ३,२१.
एतादृशं तत्तु जातं मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम् । संगं दत्तात्सज्जनानां सदा त्वं विना च त्वं दुर्जनानां च संगात् ॥ ३,२१.
संगैः सदा दुर्जनानां मुरारे गात्रं दग्धं न विरागेण युक्तम् । एतादृशाहं कां गातिं वा मुकुन्द यास्ये न जाने दयया मां च पाहि ॥ ३,२१.
एतादृशो ह्यनुतापः खगेन्द्र प्रायश्चित्तं न च क्षौरादिकं च । भानोः कन्या ह्यनुतापं च कृत्वा विचारयामास हरेः सुतत्त्वम् ॥ ३,२१.
सर्वोत्तमो हरिरेकः सदैव यतः पूर्णः सर्वगुणैस्ततश्च । सृष्टौ यस्माज्जयते विश्वजातमतो हरिः सर्वगुणैश्च पूर्णः ॥ ३,२१.
यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः । लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः ॥ ३,२१.
न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि । न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा ॥ ३,२१.
न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव । आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे ॥ ३,२१.
तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग । दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम् ॥ ३,२१.
हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि । एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव ॥ ३,२१.
आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे । ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक् ॥ ३,२१.
तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः । पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र ॥ ३,२१.
मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र । तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा ॥ ३,२१.
शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च ॥ ३,२१.
श्रीगरुडमहापुराणम् २२ श्रीकृष्ण उवाच । या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः । सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र