प्रच्छादयन्ते तत्त्वगोप्यानि ये तु तेषां गतिः सूर्यसूनुः सदैव । ये धर्मकाण्डे कर्मकाण्डे सदैव उत्पादयन्ते सुरुचिं तत्र नित्यम् ॥ ३,२०.
मौल्येन ये कथयेयुः पुराणं तेषां गतिः सूर्य सुनः सदैव । मौल्येन ये भागवतं पुराणं शृण्वन्ति वै हरिशास्त्रार्थतत्त्वम् ॥ ३,२०.
मौल्येन वेदाध्ययनं प्रकुर्वते तेषां गतिः सूर्यसूनुः सदैव । यदृच्छया प्राप्तधनेन ये तु संतुष्टास्ते ह्यत्र योग्याः सदैव ॥ ३,२०.
धनार्जने ये त्वतितृष्णाभियुक्तास्तेषां न वै भागवतेधिकारः । मत्वा लोके हरिरेवति नित्यमन्तर्यामी नास्ति तदन्य ईशः ॥ ३,२०.
एवं सदा ये प्रविचिन्तयन्ति योगक्षेमं बिभृयाद्विष्णुरेषाम् । सद्वैष्णवानामशुभं नास्ति नास्ति प्रदृश्यते संशयज्ञानरूपात् ॥ ३,२०.
कर्मानुसारेण हरिर्ददाति फलं शुभानामशुभस्य चैव । अतस्तदर्थं नैव यत्नं च कुर्याद्धनार्थं वै हरितत्त्वे च कुर्यात् ॥ ३,२०.
अतः स्नात्वा दिव्यमन्त्रं जपित्वा विसर्जयित्वा विष्णुनिर्माल्यगन्धम् । शुचिर्भूत्वा भागवतं पुराणं संश्रावयेत्सर्ववेत्तापि नित्यम् ॥ ३,२०.
कर्मानुसारेण धनार्जनं च वेदार्जनं शास्त्रसमार्जनं च । भविष्यति श्रवणं चापि विष्णोरत्यादराच्छ्रवणं दुर्घटं च ॥ ३,२०.
अत्यादराद्भागवतस्य सारमास्वादयेद्दुर्घटं मर्त्यलोके । आस्वाद्य तद्भागवतं पुराणमानन्दबाष्पैर्युक्तता दुर्घटा च ॥ ३,२०.
श्रुत्वा तत्त्वा नां निर्णयं धारणं च सुदुर्घटं चाहुरार्याः समस्तम् । श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च ॥ ३,२०.
श्रुत्वा तत्त्वानां धारणानं तरं त तथा योगे दुर्घटं संगतं च ॥ ३,२०.
श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च । एते दोषा ज्ञानपूतानपीह कुर्वन्ति संदेहयुतान्सदैव ॥ ३,२०.
अतो ह्यहं श्रवणं सत्कथायाः सदा करिष्ये नात्र विचार्यमस्ति । तेनाप्यहं हरिनामाभिवाञ्छा निश्चित्य चित्तं श्रवणे वै चकार । आदेहमेवं श्रवणं च कृत्वा त्यक्त्वा देहं भूतले संप्रजाता ॥ ३,२०.
निवस्तुं वसुदेवस्य भगिन्या उदरे खग । सुमित्रा संज्ञकायां च जाता वै मित्रविन्दिका ॥ ३,२०.
श्रवणेन हरिं मित्रं प्राप्ता सा मित्रविन्दिका । अतः सा मित्रविन्देति संज्ञया संबभूव ह ॥ ३,२०.
स्वयंवरे मित्रविन्दा राज्ञां मध्ये तु भामिनी । ममांसे व्यसृजन्मालां तां गृहीत्वा खगेश्वर । विधूय नृपतीन्सर्वान्पुरीं प्राप्ताः खगेश्वर ॥ ३,२०.
श्रीगरुडमहापुराणम् २१ श्रीकृष्ण उवाच । कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर । विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत ॥ ३,२१.
कालिन्दीसंज्ञका वीन्द्र यमुना यानुजा स्मृता । कृष्णपत्नीत्वकामेन चचार तप उत्तमम् ॥ ३,२१.
तप आलोचनं प्रोक्तं तत्त्वानां च विनिर्णयः । पूर्वार्जितानां पापानामनुतापस्तपः स्मृतम् ॥ ३,२१.
प्रायो नाम तपः प्रोक्तं चित्तनिग्रह उच्यते । प्रायश्चित्तमिति प्रोक्तं न तु क्षौरं खगेश्वर ॥ ३,२१.
अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर । पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन ॥ ३,२१.
न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च । न तु स्मृतं हरितत्त्वामृतं च सम्यक्श्रुतं लोलवार्तादिकं च ॥ ३,२१.
न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च । न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः ॥ ३,२१.
न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च । पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे ॥ ३,२१.
सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि । न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम् ॥ ३,२१.
सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः । सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.
अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः । तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३,२१.
अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः । न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द ॥ ३,२१.
अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः । अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द ॥ ३,२१.
दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च । नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम् ॥ ३,२१.