सद्यः कृतं नमनं न त्वदीयं सद्यः कृतं स्मरणं न त्वदीयम् । कदा प्राप्स्ये मरणं तन्न जाने न विश्वासं कुरु गात्रे महात्मन् ॥ ३,२०.
एतच्छ्रुत्वा नलो वीन्द्र पुत्रीवाक्यं सुनिर्मलम् । नमस्कारं च कृतवान्यथाशक्त्या प्रदक्षिणम् ॥ ३,२०.
सापि प्रदक्षिणं चक्रे नमस्कारं सदा हरेः । एवं बहुदिनं कृत्वा ध्यात्वा नारायणं परम् ॥ ३,२०.
कलेवरं च तत्याज मरणे हरिचिन्तया । मत्पितुर्वसुदेवस्य भगिन्या उदरे खग ॥ ३,२०.
कैकेयीति च नाम्ना सा त्वभवद्भद्रसंज्ञका । यस्माद्भद्रगुणैर्युक्ता भद्रा सा भद्रनामिका ॥ ३,२०.
तस्यात्मजैश्च कैकेयैः पञ्चभिः खगसत्तम । प्रत्याहृतामिमां भद्रां प्राप्तवान् खगसत्तम ॥ ३,२०.
वक्ष्येहं मित्रविन्दायाः पाणिग्रहणकारणम् । सावधानमना भूत्वा शृणु पक्षीन्द्र सत्तम ॥ ३,२०.
मित्रविन्दोवाच । यान्पूर्वसर्गेप्यवृणोन्निकामतो ह्यग्नीषोमान्नामिका मित्रविन्दा । मित्रं हरिं प्राप्तुकामा सदैक तत्रोपायं चिन्तयामासदेवी ॥ ३,२०.
हरिप्राप्तौ साधनाः संति तेषु मुख्यं कचिच्चिन्तयामास देवी । तेषां मध्ये श्रवणं श्रेष्ठमाहुः पुराणानां सात्त्विकानां सदापि ॥ ३,२०.
विष्णोरुत्कर्षो वर्तते यत्र वायोस्तथोत्कर्षः सज्जनानां पुराणे । श्राद्धं सदा विष्णुबुद्ध्या सदैव नान्यच्छ्राव्यं साधनं तत्र चैव ॥ ३,२०.
यस्मिन्दिने श्रवणं नास्ति विष्णोस्तेषां जन्म व्यर्थमाहुः कथायाम् । स्नान जपः पञ्चयज्ञं व्रतं च इष्टापूर्ते कृच्छ्रचान्द्रो च दत्तम् ॥ ३,२०.
सर्वं व्यर्थं वैष्णवानां च दीक्षा कथां विना सम्यगनुष्ठितां वै । यैर्न श्रुतं भागवतं पुराणं ससंप्रदायैर्गुरुभिः संयुतैश्च ॥ ३,२०.
यैर्न श्रुतं भागवतं पुराणं यैर्न श्रुतं ब्रह्मकाण्डं पुराणम् । तेषां जन्म व्यर्थमाहुर्ममहान्तस्तस्माच्छ्राव्या हरिवार्ता सदैव ॥ ३,२०.
न यत्र गोविन्दकथामहानदी न यत्र नारायणपादसंश्रयः । न यत्र विष्णोः सततं वचोस्ति न संवसेत्तत्क्षणमात्रं कथञ्चित् ॥ ३,२०.
यस्मिन् ग्रामे भागवतं न शास्त्रं न वर्तते भागवता रसज्ञाः । यस्मिन् गृहे नास्ति गीतार्थसारः यस्मिन् ग्रामे नाम सहस्रकं वा ॥ ३,२०.
तयो रसज्ञा यत्र न सन्ति तत्र न संवसेत्क्षणमात्रं कथञ्चित् । यस्मिन् दिने दिव्यकथा च विष्णोर्न वास्ति जन्तोस्तस्य चायुर्वृथैव ॥ ३,२०.
गर्भे गते नात्र विचार्यमस्ति तन्मन्यते दुर्लभं मर्त्यलोके । कर्णं कल्पैर्भूषितं सुंदरं च न सुंदरं चाहुरार्या रसज्ञाः ॥ ३,२०.
विष्णोः कथाख्याभरणैश्च युक्तं तदेव कर्णं सुंदरं चाहुरार्याः । तस्मात्सदा भागवतार्थसारं शृण्वन्ति ये सततं वाचयन्ति ॥ ३,२०.
तेषां जन्म स्वस्थमाहुर्महान्तो महत्फलं चास्ति तथैव तेषाम् । सोष्णीषकञ्चुकयुताश्च हरेः कथां वै शृण्वन्ति येपि च पठन्ति सदैव मर्त्याः ॥ ३,२०.
सर्वेपि ते पूजनीया हि लोके न वै शिश्रे चोदरे चैव सक्ताः । ये दाक्षिण्यादर्थलोभाद्वदन्ति सदा पुराणं भगवत्तत्त्वसारम् ॥ ३,२०.
प्रच्छादयन्ते तत्त्वगोप्यानि ये तु तेषां गतिः सूर्यसूनुः सदैव । ये धर्मकाण्डे कर्मकाण्डे सदैव उत्पादयन्ते सुरुचिं तत्र नित्यम् ॥ ३,२०.
मौल्येन ये कथयेयुः पुराणं तेषां गतिः सूर्य सुनः सदैव । मौल्येन ये भागवतं पुराणं शृण्वन्ति वै हरिशास्त्रार्थतत्त्वम् ॥ ३,२०.
मौल्येन वेदाध्ययनं प्रकुर्वते तेषां गतिः सूर्यसूनुः सदैव । यदृच्छया प्राप्तधनेन ये तु संतुष्टास्ते ह्यत्र योग्याः सदैव ॥ ३,२०.
धनार्जने ये त्वतितृष्णाभियुक्तास्तेषां न वै भागवतेधिकारः । मत्वा लोके हरिरेवति नित्यमन्तर्यामी नास्ति तदन्य ईशः ॥ ३,२०.
एवं सदा ये प्रविचिन्तयन्ति योगक्षेमं बिभृयाद्विष्णुरेषाम् । सद्वैष्णवानामशुभं नास्ति नास्ति प्रदृश्यते संशयज्ञानरूपात् ॥ ३,२०.
कर्मानुसारेण हरिर्ददाति फलं शुभानामशुभस्य चैव । अतस्तदर्थं नैव यत्नं च कुर्याद्धनार्थं वै हरितत्त्वे च कुर्यात् ॥ ३,२०.
अतः स्नात्वा दिव्यमन्त्रं जपित्वा विसर्जयित्वा विष्णुनिर्माल्यगन्धम् । शुचिर्भूत्वा भागवतं पुराणं संश्रावयेत्सर्ववेत्तापि नित्यम् ॥ ३,२०.
कर्मानुसारेण धनार्जनं च वेदार्जनं शास्त्रसमार्जनं च । भविष्यति श्रवणं चापि विष्णोरत्यादराच्छ्रवणं दुर्घटं च ॥ ३,२०.
अत्यादराद्भागवतस्य सारमास्वादयेद्दुर्घटं मर्त्यलोके । आस्वाद्य तद्भागवतं पुराणमानन्दबाष्पैर्युक्तता दुर्घटा च ॥ ३,२०.
श्रुत्वा तत्त्वा नां निर्णयं धारणं च सुदुर्घटं चाहुरार्याः समस्तम् । श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च ॥ ३,२०.