एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः । प्रादुरासीद्वरदराट्भक्त्या तस्या जनार्दनः ॥ ३,१९.
वरं वरय भद्रं ते वरदोहमिहागतः । हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥ ३,१९.
उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् । अहं हि भार्या भूयासं तव माधव सुंदर ॥ ३,१९.
इति तस्या वचः श्रुत्वा श्रीनिवासोऽब्रवीद्वचः । श्रीभगवानुवाच । अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥ ३,१९.
भवामि तव भर्ताहं नात्र कार्या विचारणा । एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥ ३,१९.
उवाच परमप्रीता हर्षगद्गदया गिरा । कन्योवाच । कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥ ३,१९.
संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे । ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥ ३,१९.
श्रीभगवानुवाच । कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि । तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥ ३,१९.
इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत । देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥ ३,१९.
कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता । कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥ ३,१९.
कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः । तस्य गत्वा गृहमहं वृषभाचलवासिनः । शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥ ३,१९.
दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर । ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥ ३,१९.
नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत् । तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥ ३,१९.
शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः । बद्ध्वा वृषान्नृपाञ्जित्वा प्राप्ता नीला महाखग ॥ ३,१९.
कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम् । एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥ ३,१९.
भूमौ द्विधा संप्रजाता कुमार्येव न संशयः । भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥ ३,१९.
श्रीगरुडमहापुराणम् २० श्रीकृष्ण उवाच । या पूर्वसर्गे नलसंज्ञस्य वीन्द्र पुत्री भूत्वा विष्णुपत्नी सकामा । प्रदक्षिणं भ्रमणं वै चकार गुणेन भद्रा भद्रसंज्ञा बभूव ॥ ३,२०.
कन्याभावे संस्थितां भद्रसंज्ञां पिता नलस्त्वब्रवीत्तां स पश्यन् । भद्रे किमर्थं गात्रपीडां करोषि फलं हि तन्नन्दिनि मे वदस्व ॥ ३,२०.
भद्रोवाच । शृणुत्वं मे तात नमस्क्रियादेः फलं वक्तुं का समर्था भवेच्च ॥ ३,२०.
तथाप्यहं तव वक्ष्यामि तात यथाशक्त्या शृणु सम्यग्घिताय । सदा हरिमर्म नाथो दयालुरहं हरेस्तव दासानुदासी । मां पाहि विष्णोस्तव वन्दे पदे इत्युक्त्वा प्रणामं चाकरोद्दण्डरूपम् ॥ ३,२०.
हरेः प्रणामं त्विति कर्तव्यशून्यं व्यर्थं तमाहुर्ज्ञानिनस्तच्छृणु त्वम् । रमेश मध्वेश सरस्वतीशेत्येवं वदन्प्रणमेद्विष्णुदेवम् ॥ ३,२०.
यथा प्रसन्नो वन्दनाद्देवद्देव स्तथा न तुष्टः पूजनात्कर्मतश्च । यथा नामस्मरणाद्वन्दनाद्वा पापान्नियच्छेतु तथा न चान्यैः ॥ ३,२०.
देहं तु ये पोषयन्त्येव तात हरेः प्रणामैः शून्यभूतं च पुष्टम् । तदेवमाहुर्व्यर्थमेवेति तात तत्पोषकाणां नरके दुः खमाहुः ॥ ३,२०.
यमोऽपि तं तत्र उलूखले तु निधाय पिष्टं सुखलैः करोति । यो वा परं न करोत्येव तात प्रदक्षिणं देवदेवस्य विष्णोः ॥ ३,२०.
तस्यैव पादौ तलयन्त्रे निधाय यमश्च नित्यं प्रकरोति पिष्टम् । एषां जिह्वा हरिकृष्णेति नाम न वक्ति नित्यं व्यर्थभूतां वदन्ति ॥ ३,२०.
तेषां जिह्वा यमलोके यमस्तु निष्कास्य पिष्टं प्रकरोति नित्यम् । काशीनिवासेन च किं प्रयोजनं किं वा प्रयागे मरणेन तात ॥ ३,२०.
किं वारणाग्रे मरणेन सौख्यं किं वा मखादेः समनुष्ठितेन । समस्ततीर्थेष्वटनेन किं किमधीतशास्त्रेण सुतीक्ष्णबुद्ध्या ॥ ३,२०.
येषां जिह्वाग्रे हरिनामैव नास्ति येषां गात्रैर्नमनं नापि विष्णोः । येषां पद्भ्यां नास्ति हरेः प्रदक्षिणं तेषां सर्वं व्यर्थमाहुर्महान्तः ॥ ३,२०.
हर्यर्पणाद्रिहितं नाम कस्मात्प्रदक्षिणं नमनं चाहुरर्घ्यम् । अतो विष्णोर्नमनं कार्यमेव हरेर्नामस्मरणं तात कार्यम् ॥ ३,२०.
जन्म ह्येतद्दुर्लभं नश्वरं तु यथा जलस्थं तत्तथैव । नो विस्वासं कुरु गात्रे त्वदीये जीवेष्वपि स्वः परश्चेति तात ॥ ३,२०.