त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम् । तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥ ३,१९.
तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले । गर्तभूते च एकान्ते चचार तप उत्तमम् ॥ ३,१९.
ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका । दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥ ३,१९.
कुमार्युवाच । त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव । त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥ ३,१९.
अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च । एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥ ३,१९.
अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे । दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥ ३,१९.
त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव । गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥ ३,१९.
तव ध्रुग्भिर्भाषणं छिन्धि देव त्वं संगमं देहि पदारविन्दे । श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥ ३,१९.
स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते । अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥ ३,१९.
कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः । दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥ ३,१९.
एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः । प्रादुरासीद्वरदराट्भक्त्या तस्या जनार्दनः ॥ ३,१९.
वरं वरय भद्रं ते वरदोहमिहागतः । हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥ ३,१९.
उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् । अहं हि भार्या भूयासं तव माधव सुंदर ॥ ३,१९.
इति तस्या वचः श्रुत्वा श्रीनिवासोऽब्रवीद्वचः । श्रीभगवानुवाच । अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥ ३,१९.
भवामि तव भर्ताहं नात्र कार्या विचारणा । एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥ ३,१९.
उवाच परमप्रीता हर्षगद्गदया गिरा । कन्योवाच । कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥ ३,१९.
संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे । ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥ ३,१९.
श्रीभगवानुवाच । कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि । तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥ ३,१९.
इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत । देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥ ३,१९.
कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता । कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥ ३,१९.
कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः । तस्य गत्वा गृहमहं वृषभाचलवासिनः । शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥ ३,१९.
दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर । ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥ ३,१९.
नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत् । तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥ ३,१९.
शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः । बद्ध्वा वृषान्नृपाञ्जित्वा प्राप्ता नीला महाखग ॥ ३,१९.
कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम् । एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥ ३,१९.
भूमौ द्विधा संप्रजाता कुमार्येव न संशयः । भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥ ३,१९.
श्रीगरुडमहापुराणम् २० श्रीकृष्ण उवाच । या पूर्वसर्गे नलसंज्ञस्य वीन्द्र पुत्री भूत्वा विष्णुपत्नी सकामा । प्रदक्षिणं भ्रमणं वै चकार गुणेन भद्रा भद्रसंज्ञा बभूव ॥ ३,२०.
कन्याभावे संस्थितां भद्रसंज्ञां पिता नलस्त्वब्रवीत्तां स पश्यन् । भद्रे किमर्थं गात्रपीडां करोषि फलं हि तन्नन्दिनि मे वदस्व ॥ ३,२०.
भद्रोवाच । शृणुत्वं मे तात नमस्क्रियादेः फलं वक्तुं का समर्था भवेच्च ॥ ३,२०.
तथाप्यहं तव वक्ष्यामि तात यथाशक्त्या शृणु सम्यग्घिताय । सदा हरिमर्म नाथो दयालुरहं हरेस्तव दासानुदासी । मां पाहि विष्णोस्तव वन्दे पदे इत्युक्त्वा प्रणामं चाकरोद्दण्डरूपम् ॥ ३,२०.