तदाब्रवीत्कव्यवाहश्च पुत्रीं पतिं किमर्थं नेच्छसि मूढबुद्धे । तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने । जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरेवैक एव ॥ ३,१९.
यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम् । अनादिनित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥ ३,१९.
एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव । निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥ ३,१९.
सुकश्मलं नवरन्ध्रैः स्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च । एतादृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥ ३,१९.
देवस्त्रियो निजभर्तॄन्विहाय तत्र स्थितं प्रीणयन्त्येव नित्यम् । अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥ ३,१९.
भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव । अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥ ३,१९.
यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि । स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः ॥ ३,१९.
तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे । यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥ ३,१९.
अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः । कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥ ३,१९.
हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च । हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥ ३,१९.
प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च । तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥ ३,१९.
तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः । सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च ॥ ३,१९.
शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि । गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥ ३,१९.
सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम् । सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥ ३,१९.
काञ्चीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके । सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥ ३,१९.
भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः । रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥ ३,१९.
तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम् । शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥ ३,१९.
प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥ ३,१९.
अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन । एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥ ३,१९.
कपिलाख्यमहातीर्थे आरुरोह महागिरिम् । तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥ ३,१९.
त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम् । तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥ ३,१९.
तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले । गर्तभूते च एकान्ते चचार तप उत्तमम् ॥ ३,१९.
ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका । दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥ ३,१९.
कुमार्युवाच । त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव । त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥ ३,१९.
अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च । एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥ ३,१९.
अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे । दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥ ३,१९.
त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव । गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥ ३,१९.
तव ध्रुग्भिर्भाषणं छिन्धि देव त्वं संगमं देहि पदारविन्दे । श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥ ३,१९.
स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते । अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥ ३,१९.
कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः । दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥ ३,१९.