स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् 44.
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः 44.
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः 44.
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् 44.
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः 44.
चतुर्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः 44.
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् 44.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः
प्रसङ्गात्कथयिष्यामि शालग्रामस्य लक्षणम् 45.
शङ्खचक्रगदापद्मी (हस्तः) (केशवाख्यो) गदाधरः 45.
सचक्रशङ्खाब्जगदो (माधवः) श्रीगदाधरः 45.
पद्मशङ्खारिगादिने (विष्णुरूपाय) ते नमः 45.
नमो गदारिशङ्खाब्जयुक्त(त्रैविक्रमाय) च 45.
चक्राब्जशङ्खगादिने नमः (श्रीधरमूर्त्तये) 45.
साब्जचक्रगदाशङ्ख(पद्मनाभस्वरूपिणे) 45.
सारिशङ्खगदाब्जाय (वासुदेवाय) वै नमः 45.
सुशङ्खसुगदाब्जारिधृते (प्रद्युम्नमूर्त्तये) 45.
साब्जशङ्खगदाचक्र(पुरुषोत्तममूर्त्तये) 45.
(नृसिंहमूर्त्तये) पद्मगदाशङ्खारिधारिणे 45.
सशङ्कचक्राब्जगदं (जनार्दन) मिहानये 45.
सुचक्राब्जगदाशङ्खयुक्ताय (हरिमूर्त्तये) 45.
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् 45.
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तुपुष्कलः 45.
स दीर्घः सशिरश्छिद्रो यो(ऽनिरुद्धस्तु) वर्तुलः 45.
मध्ये गादकृती रेखा नाभिचक्रो (क्र) महोन्नतः 45.
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः 45.
नीलस्त्रिरेखः स्थूलोऽथ (कूर्ममूर्त्तिः स बिन्दुमान् 45.
(श्रीधरः) पञ्चरेखोऽव्या (द्वनमाली) गादाङ्कितः 45.
नानावर्णोऽनेकमूर्त्तिर्नागभोगी (त्वनन्तकः) 45.
सङ्कीर्णद्वारकः सोऽव्यादथ ब्रह्मा सुलोहितः 45.