स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः । स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥ ३,१९.
वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान् । त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥ ३,१९.
शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम् । वाणीदृष्टान्सविशेषान् गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥ ३,१९.
उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम् । हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥ ३,१९.
इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च । दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥ ३,१९.
विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम् । अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥ ३,१९.
केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव । एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो शृणु त्वंमम भार्याः षडेताः ॥ ३,१९.
रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र । सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥ ३,१९.
कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान् भजेन्मनसा चिन्तितांश्च । अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥ ३,१९.
तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥ ३,१९.
तदाब्रवीत्कव्यवाहश्च पुत्रीं पतिं किमर्थं नेच्छसि मूढबुद्धे । तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने । जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरेवैक एव ॥ ३,१९.
यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम् । अनादिनित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥ ३,१९.
एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव । निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥ ३,१९.
सुकश्मलं नवरन्ध्रैः स्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च । एतादृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥ ३,१९.
देवस्त्रियो निजभर्तॄन्विहाय तत्र स्थितं प्रीणयन्त्येव नित्यम् । अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥ ३,१९.
भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव । अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥ ३,१९.
यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि । स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः ॥ ३,१९.
तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे । यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥ ३,१९.
अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः । कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥ ३,१९.
हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च । हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥ ३,१९.
प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च । तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥ ३,१९.
तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः । सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च ॥ ३,१९.
शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि । गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥ ३,१९.
सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम् । सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥ ३,१९.
काञ्चीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके । सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥ ३,१९.
भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः । रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥ ३,१९.
तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम् । शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥ ३,१९.
प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥ ३,१९.
अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन । एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥ ३,१९.
कपिलाख्यमहातीर्थे आरुरोह महागिरिम् । तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥ ३,१९.