कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवोऽखिलस्य । एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥ ३,१८.
अतस्त्वौर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः । यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥ ३,१८.
जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वौर्वसंज्ञा मवाप । ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥ ३,१८.
पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार । तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥ ३,१८.
सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च । समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥ ३,१८.
गरुड उवाच । आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे । निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥ ३,१८.
ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा । पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥ ३,१८.
एवमुक्तो हृषीकेशः पक्षीशेन महात्मना । उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥ ३,१८.
श्रीकृष्ण उवाच । गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥ ३,१८.
शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम । एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥ ३,१८.
एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग । एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥ ३,१८.
श्रीगरुडमहापुराणम् १९ गरुड उवाच । त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि । ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥ ३,१९.
मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च । अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥ ३,१९.
सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव । सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥ ३,१९.
ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च । सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥ ३,१९.
निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः । गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥ ३,१९.
श्रीकृष्ण उवाच । आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप । उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥ ३,१९.
परिमाणे शतगुणे आनन्दे स्फुटतावशात् । अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥ ३,१९.
सहस्रगुणितत्वं च वायुना समुदीरितम् । यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥ ३,१९.
सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः । भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥ ३,१९.
एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम् । एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥ ३,१९.
भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् । एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥ ३,१९.
यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत् । स्फुटीभवेद्यथैवाग्निर्बहुलोपि न सूर्यवत् ॥ ३,१९.
यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत् । आनन्दतारतम्यं च यथोक्तं तु मया तव ॥ ३,१९.
तथैव जानीहि खग नान्यथा तु कथञ्चन । अहं विजानामि मयि स्थितान् गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥ ३,१९.
सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥ ३,१९.
सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥ ३,१९.
हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी । सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥ ३,१९.
स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम् । स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥ ३,१९.
ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च । श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥ ३,१९.