कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग्रुरोद । एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥ ३,१८.
कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः । त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥ ३,१८.
स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः । अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥ ३,१८.
अतीव दैन्येन धनादिकं च संपाद्य सर्वेऽपि सुपापशीलाः । कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥ ३,१८.
सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः । एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥ ३,१८.
एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च । स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति विमूढचेतसः ॥ ३,१८.
गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव । अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥ ३,१८.
गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः । दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥ ३,१८.
दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् । अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥ ३,१८.
नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति । नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥ ३,१८.
कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवोऽखिलस्य । एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥ ३,१८.
अतस्त्वौर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः । यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥ ३,१८.
जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वौर्वसंज्ञा मवाप । ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥ ३,१८.
पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार । तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥ ३,१८.
सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च । समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥ ३,१८.
गरुड उवाच । आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे । निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥ ३,१८.
ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा । पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥ ३,१८.
एवमुक्तो हृषीकेशः पक्षीशेन महात्मना । उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥ ३,१८.
श्रीकृष्ण उवाच । गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥ ३,१८.
शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम । एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥ ३,१८.
एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग । एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥ ३,१८.
श्रीगरुडमहापुराणम् १९ गरुड उवाच । त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि । ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥ ३,१९.
मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च । अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥ ३,१९.
सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव । सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥ ३,१९.
ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च । सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥ ३,१९.
निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः । गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥ ३,१९.
श्रीकृष्ण उवाच । आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप । उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥ ३,१९.
परिमाणे शतगुणे आनन्दे स्फुटतावशात् । अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥ ३,१९.
सहस्रगुणितत्वं च वायुना समुदीरितम् । यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥ ३,१९.
सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः । भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥ ३,१९.