अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते । श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥ ३,१८.
दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥ ३,१८.
त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च । सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥ ३,१८.
स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर्गात्रजलैर्मुकुन्द । अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥ ३,१८.
स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥ ३,१८.
नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम् । नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥ ३,१८.
सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव । घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥ ३,१८.
रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते । जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥ ३,१८.
नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् । यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ३,१८.
एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम् । अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥ ३,१८.
पादारविन्दे नार्पितं भक्ष्यभोज्यं दृष्टो मया केन पुण्येन देव । भुक्त्वाभुक्त्वा हरिनैरवेद्यजातं सुखं त्वदीयं रमया लालितं च ॥ ३,१८.
द्युभ्वाश्रयं तव मूर्धानमाहुः किरीटयुक्तं कुटिलैः कुन्तलैश्च । अनेकजन्मार्जितपुण्यसंचयैर्दृष्टं मया सज्जनसंगमाच्च ॥ ३,१८.
अनेकजन्मार्जितपापसंचयैरदर्शनं यास्यति देवदेव । एवं सुभक्त्या च रुरोद रुद्रो दृष्ट्वा हरिं सुर्वगुणैः संपूर्णम् ॥ ३,१८.
पादारविन्दं तव विश्वमूर्ते योगीश्वरैर्हृदये संगृहीतम् । दृष्टं मया दयया वासुदेव द्रक्ष्ये कथं पुनरित्थं रुरोद ॥ ३,१८.
दृष्टं मया त्वरिवले भविनाशिशङ्खचक्रादिकैस्त्रिजगतापि च देव पूर्णम् । एतादृशं त्वदुदरं च कथं रमेश द्रक्ष्ये पुनः पुनरहं त्विति संरुरोद ॥ ३,१८.
आनन्दपूर्ण नखपूर्ण सुकेशपूर्ण लोमादिपूर्ण गुणपूर्ण सुघोणपूर्ण । वक्षः स्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोभि लक्ष्म्या ॥ ३,१८.
सुकोमलं श्रीतुलस्यास्तथैव सुपुष्पितं चन्द नैश्चर्चितं च । एतादृशं तव वक्षः स्थलं च दृष्टं मया तव कारुण्यदृष्ट्या ॥ ३,१८.
पुनः पुनर्दर्शनं मे कथं स्यादेवं रुद्रः स च भक्त्या रुरोद । अतस्तूरुर्नाम संप्राप्य रुद्रस्तत्पुत्रोभूद्दौर्वसंज्ञः स एव ॥ ३,१८.
यस्माद्रुदं चोर्वरितं वै चकार तस्मात्स रुद्रस्त्वौर्वसंज्ञो बभूव । और्वस्तु लोकान्मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् ॥ ३,१८.
स्तुवद्दैव चौर्वो विष्णुपादारविदं स्मृत्वास्मृत्वा रुद्धकण्ठो बभूव । ते पापिष्ठाः पापरूपान्भजन्तो दिनेदिने दुर्विषयान्कदिन्द्रियैः ॥ ३,१८.
कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग्रुरोद । एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥ ३,१८.
कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः । त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥ ३,१८.
स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः । अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥ ३,१८.
अतीव दैन्येन धनादिकं च संपाद्य सर्वेऽपि सुपापशीलाः । कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥ ३,१८.
सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः । एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥ ३,१८.
एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च । स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति विमूढचेतसः ॥ ३,१८.
गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव । अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥ ३,१८.
गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः । दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥ ३,१८.
दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् । अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥ ३,१८.
नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति । नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥ ३,१८.