कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः । अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.
सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः । अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.
दशवर्षं तपः कर्तुं विवेश लवणांभसि । अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥ ३,१८.
व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः । रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥ ३,१८.
अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः । दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥ ३,१८.
द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः । प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥ ३,१८.
ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम् । स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥ ३,१८.
अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम् । कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥ ३,१८.
सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा । अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥ ३,१८.
सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान् । वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥ ३,१८.
उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः । इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥ ३,१८.
उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः । रुदमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥ ३,१८.
गरुड उवाच । रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः । रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥ ३,१८.
एतद्विस्तार्य मेब्रूहि पौत्राय तव सुव्रत । इत्युक्तस्तेन स हरिरुवाच करुणानिधिः ॥ ३,१८.
श्रीकृष्ण उवाच । दृष्ट्वा स्वबिंबं सुगुणैस्तु पूर्णं संकर्षणाख्यं नतपादपद्म् । श्रीब्रह्मशेषैर्जिष्णुकामैस्तथान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् ॥ ३,१८.
दृष्ट्वा हरिं पुलकाङ्गस्तु रुद्रः सभाष्पचक्षू रुद्धकण्ठश्च हृष्टः । अनाद्यनन्तब्रह्मकल्पेषु नैव कृतं यया स्मरणं सर्वदैव ॥ ३,१८.
पादारविन्दे सुनखैर्विभूषिते दृष्टे मया केन पुण्येन देव । दृष्ट्वादृष्ट्वा पादपद्मं मुरारेः पुनः पुना रुद्धकण्ठो बभूव ॥ ३,१८.
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनर्दर्शनं मे प्रभोः स्यात् । मुकुन्द नारायण विश्वमूर्ते वागिन्द्रियेण स्तवनं मे कथं स्यात् ॥ ३,१८.
मद्दर्शनं सर्वदा पापुयुक्तं तथा मद्वाक्सर्वदा पापयुक्ता । मद्दर्शनं सर्वदा स्त्रीषु सक्तमभूच्च ते दर्शनं मे ह्यसक्तम् ॥ ३,१८.
आसक्तता पुत्रदारादिकानां सम्यक्शक्तिस्तवने नास्ति विष्णोः । विष्णुस्तुतौ नावकाशोस्ति वाचो दृष्टोहं त्वं केन पुण्येन देव ॥ ३,१८.
अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते । श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥ ३,१८.
दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥ ३,१८.
त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च । सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥ ३,१८.
स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर्गात्रजलैर्मुकुन्द । अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥ ३,१८.
स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥ ३,१८.
नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम् । नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥ ३,१८.
सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव । घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥ ३,१८.
रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते । जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥ ३,१८.
नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् । यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ३,१८.
एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम् । अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥ ३,१८.