एतासां रमणे काले उमायाः पक्षिसत्तम । अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥ ३,१७.
पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे । भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥ ३,१७.
उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा । सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥ ३,१७.
अर्जुनं वीररूपेण प्रविष्टो वायुरेव च । भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥ ३,१७.
सुंदरेण च रूपेण प्रविष्टो नकुले मरुत् । रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥ ३,१७.
नीतिरूपेण चाविष्टो सहदेवे च मारुतः । द्रौपदीं रमते नित्यं सहदेवोप्युषां खग ॥ ३,१७.
शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः । तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥ ३,१७.
धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत् । मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥ ३,१७.
अपरोक्षवतीनां तु तासां लेपो न सर्वथा । अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥ ३,१७.
रमणं चक्रुरेवं ता अतो दोषो न विद्यते । एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥ ३,१७.
रमणं चक्रतुः सम्यक्कृष्णादेहेऽपि मानद । तथाप्यनन्यागामित्वं चिन्तनीयं न संशयः ॥ ३,१७.
सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः । न जानन्त्येव मर्त्यांस्तु तेषु देहेषु ते पुनः ॥ ३,१७.
नीरक्षीरविविकं च हंसो वेत्ति न चापरः । अतः स्वभर्तृसंयोगं कृष्णादेहेन चिन्तयेत्कृष्णादेहेन्यगामित्वं नैव चिन्त्यं खगेश्वर ॥ ३,१७.
श्रीगरुडमहापुराणम् १८ श्रीकृष्ण उवाच । अथानन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम । शृणु तान्सावधानेन श्रुत्वा तानवधारय ॥ ३,१८.
पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः । हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥ ३,१८.
शयनार्थमभूदेष तेन कृत्यं हरेर्न तु । सर्वदा हरिदासोहं सर्वदा हरिपूजकः ॥ ३,१८.
हरे सदा नमामि त्वां बहु जन्मनि जन्मनि । एवं बुद्ध्वा तु गरुडो ह्यभूच्च शयनं हरेः ॥ ३,१८.
सूत्रनाम्नस्तथा वायोः सदायं विनतासुत । कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥ ३,१८.
ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर । अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥ ३,१८.
त्रय एते महाभाग परस्परसमाः स्मृताः । गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥ ३,१८.
शेषः स एव विज्ञेयो भक्तो नारायणस्य च । विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥ ३,१८.
सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग । सोपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥ ३,१८.
रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप । बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥ ३,१८.
सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः । आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥ ३,१८.
त्रय एते माहाभागावताराः फणिनः स्मृताः । न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥ ३,१८.
रुद्रावतारान्वक्ष्येहं ताञ्छृणु त्वं समाहितः । योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥ ३,१८.
सदाशिव इति त्वाख्यामवाप स विनाशकः । तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥ ३,१८.
कपालमालामशिवां सदा धारयते यतः । अतः सदाऽशिवो ज्ञेयो न च भागवतः शिवः ॥ ३,१८.
गजाजिनं चापवित्रं यतो धारयते हरः । लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥ ३,१८.
हर्याज्ञया सदा लोकान्विषयासक्तचेतसः । विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥ ३,१८.