उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत् । देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥ ३,१७.
विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे । सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥ ३,१७.
मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः । तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥ ३,१७.
पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा । एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥ ३,१७.
चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो । समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥ ३,१७.
अस्माकं वायुना देवेनान्यगात्वं न दोषभाक् । अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥ ३,१७.
हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम । सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥ ३,१७.
शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका । कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥ ३,१७.
तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः । वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥ ३,१७.
सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम् । यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥ ३,१७.
विलासं दर्शयामास ब्रह्मणः परमेष्ठिनः । अतः सा पार्वाती श्रेष्ठा ब्रह्मदेहे न संशयः ॥ ३,१७.
कृष्णदेहेपि तस्यास्तु न भविष्यति संगमः । अन्यगात्वं द्वितीयेस्मिन्भविष्यति न संशयः ॥ ३,१७.
रुद्रान्तः स्थो हरिश्चैव वहं दत्त्वा स्त्रियां प्रभुः । अन्तर्धानं ययौ श्रीमान्स्वलोकं गतवानभूत् ॥ ३,१७.
विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः । इन्द्रसेनेति संज्ञां च लब्ध्वा ताश्च तपोवनम् ॥ ३,१७.
ययुस्तत्र चरन्त्यस्ता ददृशुर्मुद्गलं त्वृषिम् । तस्य दर्शनमात्रेण बभूवुः काममोहिताः ॥ ३,१७.
मुद्गलस्याभिमानं हि नाशयित्वा च मारुतः । रमयामास तत्रस्था भारत्यादिवराङ्गनाः ॥ ३,१७.
तद्देहेन विसृष्टा सा बभूव द्रौपदीति च । यस्मात्सा द्रुपदाज्जाता तस्मात्सा द्रौपदी स्मृता ॥ ३,१७.
वेदिमध्यात्समुद्भूता तस्मात्सायोनिजा स्मृता । कृष्णवर्णा यतस्तस्मात्सा कृष्णा भूतले स्मृता ॥ ३,१७.
कृष्णादेहपि भारत्या अभिमानः सदा स्मृतः । शच्यादेरभिमानस्तु तस्मिन्देहे कदाचन ॥ ३,१७.
यस्याः स्वभर्तृसंयोगकाले च खगसत्तम । अभिमानस्तदैव स्यात्तस्या एव न चान्यथा ॥ ३,१७.
एतासां रमणे काले उमायाः पक्षिसत्तम । अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥ ३,१७.
पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे । भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥ ३,१७.
उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा । सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥ ३,१७.
अर्जुनं वीररूपेण प्रविष्टो वायुरेव च । भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥ ३,१७.
सुंदरेण च रूपेण प्रविष्टो नकुले मरुत् । रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥ ३,१७.
नीतिरूपेण चाविष्टो सहदेवे च मारुतः । द्रौपदीं रमते नित्यं सहदेवोप्युषां खग ॥ ३,१७.
शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः । तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥ ३,१७.
धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत् । मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥ ३,१७.
अपरोक्षवतीनां तु तासां लेपो न सर्वथा । अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥ ३,१७.
रमणं चक्रुरेवं ता अतो दोषो न विद्यते । एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥ ३,१७.