वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च । तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥ ३,१६.
केवला भारती ज्ञेया काशिराजस्य कन्यका । काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥ ३,१६.
वाच्यादिभिः संयुतैव द्रौपदी द्रुपदात्मजा । देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥ ३,१६.
संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे । वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥ ३,१६.
इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सत्तम । स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥ ३,१६.
श्रीगरुडमहापुराणम् १७ गरुड उवाच । चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती । एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥ ३,१७.
कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत । गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥ ३,१७.
श्रीकृष्ण उवाच । विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम । वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥ ३,१७.
पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती । इन्द्रभार्या शची देवी यम भार्याच शामला ॥ ३,१७.
अश्विभार्या उषा देवी भर्तृभिः सहिता खग । ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥ ३,१७.
हावं भावं विलासं च दर्शयामासुरञ्जसा । दृष्ट्वा ता उद्धता ब्रह्मा शशाप खगसत्तम ॥ ३,१७.
उद्धताश्च यतो यूयं मानुषीं योनिमाप्स्यथ । तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर ॥ ३,१७.
एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम् । तत्रोपविष्टं ब्रह्माणं वञ्चयामासुरञ्जसा ॥ ३,१७.
तूष्णीमेव स्थिते वीन्द्र वञ्चयन्त्यः स्थिताः पुनः । ततस्तूष्णीं स्थितं वीन्द्र वञ्चयामासुरञ्जसा ॥ ३,१७.
त्रिवारानन्तरं ब्रह्मा शप्तवांस्ता महाप्रभुः । त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनम् ॥ ३,१७.
किं चाश्रुत्वातः पश्चाच्चतुर्जन्मसु भूतले । एकदेहान्मानुषत्वं भविष्यति न संशयः ॥ ३,१७.
द्वितीये जन्मनि तथा अन्यगात्वमवाप्स्यथ । तृतीये जन्मनि तथा भर्तृसंयोग माप्स्यथ ॥ ३,१७.
जन्मन्याद्ये चतुर्थे च नान्यगात्वमवाप्स्यथ । तथा स्वभर्तृसंयोगं नावाप्स्यथ च सर्वशः ॥ ३,१७.
एवं शप्तास्तु ताः सर्वा ब्रह्मणा पक्षिसत्तम । तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ॥ ३,१७.
ब्रह्मशापस्त्वनिर्वाय उपायैः शतशोपि च । नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः ॥ ३,१७.
उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत् । देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥ ३,१७.
विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे । सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥ ३,१७.
मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः । तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥ ३,१७.
पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा । एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥ ३,१७.
चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो । समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥ ३,१७.
अस्माकं वायुना देवेनान्यगात्वं न दोषभाक् । अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥ ३,१७.
हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम । सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥ ३,१७.
शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका । कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥ ३,१७.
तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः । वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥ ३,१७.
सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम् । यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥ ३,१७.