त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर । रूपैर्ऋजुस्वरूपैश्च ब्रह्मणः परमेष्ठिनः ॥ ३,१६.
सत्यमेव न संदेहो नित्यानन्दसुखादिषु । एवमेव विजानीयान्नान्यथा तु कथञ्चन ॥ ३,१६.
एतस्य श्रवणादेव मोक्षं यान्ति न संशयः । तदनन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ॥ ३,१६.
कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वर । स्त्रियौ द्वे यमले चैव तयोर्मध्ये तु यद्यिका ॥ ३,१६.
वाणीतिसंज्ञकां वीन्द्र ब्रह्माणीसंज्ञकां विदुः । पुरुषाख्यविरिञ्चस्य भार्या सावित्रिका मता । चतुर्मुखस्य भार्या तु कीर्तिता सा सरस्वती ॥ ३,१६.
एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम । वक्ष्येऽवतारान् भारत्याः समाहितमनाः शृणु ॥ ३,१६.
सर्ववेदाभिमानित्वात्सर्ववेदात्मिका स्मृता । महाध्यातुश्च वायोस्तु भार्या सा परिकीर्तिता ॥ ३,१६.
ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता । सदा सुखस्वरूपत्वाद्भारती तु सुखात्मिका ॥ ३,१६.
सुखस्वरूप वायोस्तु भार्या सा परिकीर्तिता । गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुता सती ॥ ३,१६.
ततस्तु भारती नित्या गुरुभक्तिरिति स्मृता । महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता ॥ ३,१६.
हरौ स्नेहयुतत्वाच्च हरिप्रीतिरिति स्मृता । धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता ॥ ३,१६.
सर्वमन्त्राभिमानित्वात्सर्वमन्त्रात्मिका स्मृता । महाप्रभोश्च वायोश्च भार्या वै सा प्रकीर्तिता ॥ ३,१६.
भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेव च । अतस्तु भारती ज्ञेया भुजिनाम्ना प्रकीर्तिता ॥ ३,१६.
चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिता । रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिता ॥ ३,१६.
हनुमांश्च तदा जज्ञे त्रेतायां पक्षिसत्तम । तदा शिवाख्यविप्राच्च जज्ञे सा भारती स्मृता ॥ ३,१६.
न केवलं भारती सा शच्याद्यैश्चैव संयुता । तस्मिन्संजनिताः सर्वाः प्रापुर्योगं स्वभर्तृभिः ॥ ३,१६.
अन्यगेति च विज्ञेया कन्या तन्मतिसंज्ञिका । त्रेतान्ते सैव पक्षीन्द्र शच्याद्यैश्चैव संयुता ॥ ३,१६.
दमयन्त्यनलाज्जाता इन्द्रसेनेति चोच्यते । नलं नन्दयते यस्मात्तस्माच्च नलनन्दिनी ॥ ३,१६.
तत्र स्वभर्तृसंयोगं नैव चाप खगेश्वर । तत्रान्यगात्वं विज्ञेयं पुरुषस्थेन वायुना ॥ ३,१६.
किञ्चित्कालं तथा स्थित्वा कन्यैव मृतिमाप सा । शच्यादिसंयुता सैव द्रुपदस्य महात्मनः ॥ ३,१६.
वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च । तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥ ३,१६.
केवला भारती ज्ञेया काशिराजस्य कन्यका । काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥ ३,१६.
वाच्यादिभिः संयुतैव द्रौपदी द्रुपदात्मजा । देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥ ३,१६.
संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे । वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥ ३,१६.
इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सत्तम । स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥ ३,१६.
श्रीगरुडमहापुराणम् १७ गरुड उवाच । चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती । एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥ ३,१७.
कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत । गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥ ३,१७.
श्रीकृष्ण उवाच । विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम । वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥ ३,१७.
पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती । इन्द्रभार्या शची देवी यम भार्याच शामला ॥ ३,१७.
अश्विभार्या उषा देवी भर्तृभिः सहिता खग । ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥ ३,१७.