हिताहितोपदेष्टृत्वाद्भक्तानां हृदये स्थितः । ततश्च गुरुसंज्ञां चाप्यवाप स च मारुतः ॥ ३,१६.
योगिनां हृदये स्थित्वा सध्यायति हरिं परम् । पार्थक्येनापि तं ध्यायन्महाध्यातेति स स्मृतः ॥ ३,१६.
यद्योग्यतानुसारेण विजानाति परं हरिम् । रुद्रादौ विद्यमानांश्च गुणाञ्जानाति सर्वदा ॥ ३,१६.
अतो वै विज्ञनामासौ प्रोक्तो हि खगसत्तम । काम्यानां कर्मणां त्यागाद्विराग इति स स्मृतः ॥ ३,१६.
अथवायोगिनां नित्यं हृदि स्थित्वा स मारुतः । वैराग्यं संजनयति विराग इति स स्मृतः ॥ ३,१६.
देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् । तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च ॥ ३,१६.
देवानां च ऋषीणां च उत्तमानां नृणां तथा । सुखांशं जनयेद्वायुर्यतोतः सुखसंज्ञकः ॥ ३,१६.
भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः । दुः खशोकादिकं किञ्चिद्देवानां भवति प्रभो ॥ ३,१६.
तच्चासुरावेशवशादित्यवेहि न संशयः । तज्जीवस्य भवेत्किञ्चिद्दैत्यानां क्रमशो भवेत् ॥ ३,१६.
यतः कलिश्चाधिकः स्यादतो दुः खीति स स्मृतः । दैत्यानां पुण्यपापाभ्यां दुःखमेवोत्तरोत्तरम् ॥ ३,१६.
तद्दुःखमुत्तरेषां च कलिपर्यन्तमेव च । भुनक्ति सर्वदा वीन्द्र ततः कलिरिति स्मृतः ॥ ३,१६.
सुखहर्षादिकं किंचिद्दैत्यानां भवति प्रभो । देवावेशो भवेत्तस्य नात्र कार्या विचारणा ॥ ३,१६.
देवानां निरयो नास्ति दैत्यानां विनतासुत । सुखस्वरूपं तन्नास्ति विषयोत्थमपि द्विज ॥ ३,१६.
विषयोत्थं किञ्चिदपि देवावेशादुदीरितम् । तमो नास्त्येव देवानां दुःखं नास्ति स्वरूपतः ॥ ३,१६.
विषयोत्थं महादुःखं देवानां नास्ति सर्वदा । दुःखशोकादिकं किं चिदसुरावेशतो भवेत् ॥ ३,१६.
अतः कलिः सदा दुःखी सुखी वायुस्तु सर्वदा । मनुष्याणामृषीणां च सुखं दुःखं खगेश्वर ॥ ३,१६.
भवेत्तत्पुण्यपापाभ्यां पुण्यभोगी च मारुतः । कष्टभङ्गः कलिलयो नात्र कार्या विचारणा ॥ ३,१६.
प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः । प्रविष्टाः संति लोकेषु पृथक्संति खगेश्वर ॥ ३,१६.
मारुतरेवतारांश्च शृणु पक्षीन्द्रसत्तम । चतुर्दशसु चन्द्रेषु द्वितीयौ यो विरोचनः ॥ ३,१६.
स वायुरिति संप्रोक्त इन्द्रादीनां खगेश्वर । हरितत्त्वेषु सर्वेषु स विष्वग्याव्यतेक्षणः ॥ ३,१६.
अतो रोचननामासौ मरुदंशः प्रकीर्तितः। रामावतारे हनुमान्रामकार्यार्थसाधकः । स एव भीमसेनस्तु जातो भूम्यां महाबलः ॥ ३,१६.
कृष्णावतारे विज्ञेयो मरुदंशः प्रकीर्तितः ॥ ३,१६.
मणिमान्नाम दैत्यस्तु संकराख्यो भविष्यति । सर्वेषां संकरं यस्तु करिष्यति न संशयः ॥ ३,१६.
तेन संकरनामासौ भविष्यति खगेश्वर । धर्मान्भागवतान्सर्वान्विनाशयति सर्वथा ॥ ३,१६.
तदा भूमौ वासुदेवो भविष्यति न संशयः । यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे ॥ ३,१६.
अतः स प्रज्ञया पूर्णो भविष्यति न संशयः । अवतारास्त्रयो वायोर्मतं भागवताभिधम् ॥ ३,१६.
स्थापनं दुष्टदमनं द्वयमेव प्रयोजनम् । नान्यत्प्रयोजनं वायोस्तथा वैरोचनात्मके ॥ ३,१६.
अवतारत्रये वीन्द्र दुःखं गर्भादिसंभवम् । नास्ति नास्त्येव वायोस्तु तथा वैरोचनादिके ॥ ३,१६.
शुक्रशोणितसंबन्धो ह्यवतारचतुष्टये । नास्ति नास्त्येव पक्षीन्द्र यतो नास्त्यशुभं ततः ॥ ३,१६.
पूर्वं गर्भं समाशोष्य समये प्रभवस्य च । प्रादुर्भवति देवेशी ह्यवतारचतुष्टये ॥ ३,१६.