रजसात्र समुत्पन्नो मायायां वासुदेवतः । विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥ ३,१६.
ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः । स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥ ३,१६.
एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च । वायोर्नामानि वक्ष्येहं शृणु पक्षीन्द्रसत्तम ॥ ३,१६.
संकर्षणाच्च गरुड जयायां यो वभूव ह । स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥ ३,१६.
लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः । बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥ ३,१६.
धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः । योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥ ३,१६.
यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः । सर्वेषां च हृदि स्थित्वा स्मरते सर्वदा हरिम् ॥ ३,१६.
अतो वायुःस्थितिर्नाम बभूव खगसत्तम । अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥ ३,१६.
सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः । सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥ ३,१६.
अतो मे मुक्तिनामाभूद्वायुरेव न संशयः । ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥ ३,१६.
यतो सौ वायुरेवैको मुक्तिनामा भूवह । विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥ ३,१६.
अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः । एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥ ३,१६.
चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः । प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥ ३,१६.
अतस्तु वायुरेवैको महाप्रभुरिति स्मृतः । सर्वेषां च हृहि स्थित्वा बलं पश्यति सत्तम ॥ ३,१६.
अतो बलमिति ह्याख्यामवाप विनतासुत । सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः ॥ ३,१६.
याजनं कुरुते नित्यमतोसौ यष्टृसंज्ञकः । अनन्तकल्पमारभ्य वायुपर्यन्तमेव च ॥ ३,१६.
वक्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः । योगस्य वक्रता नाम काम्यता हरिपूजने । ईशरुद्रादिकानां च काम्येन हरिपूजनम् ॥ ३,१६.
कस्यचित्त्वथ पक्षीन्द्र ह्यतस्त्वनृजवः स्मृताः ॥ ३,१६.
ऋष्यादीनां च मध्येपि काम्येन हरिपूजनम् । अतो न ऋजवो ज्ञेया मनुष्याणां च का कथा ॥ ३,१६.
यावत्काम्यसपर्यां वै न जहाति नरोत्तमः । तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनीम् ॥ ३,१६.
अनादिकालमारभ्य कर्मजन्या च वासना । मोक्षाधिकारिणः सर्वे कुर्वते कस्य पूजनम् ॥ ३,१६.
नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकात् । प्राप्ययोगं समाचर्य अन्ते मोक्षमवाप्नुयात् ॥ ३,१६.
काम्येन पूजनं विष्णोरैश्वर्यं प्रददाति च । ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः ॥ ३,१६.
तदेव विपरीतं चेज्ज्ञानाय परिकीर्तितम् । शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा ॥ ३,१६.
सलिले तीर्थबुद्धिस्तु रोणुकायां तथैव च । शिवे सूर्ये षण्मुखे च विष्णुबुद्धिः खगेश्वर ॥ ३,१६.
इत्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतम् । शिलाद्येषु च सर्वेषु ऐक्येनैव विचिन्तनम् ॥ ३,१६.
विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्थवेदनम् । अनाद्यनन्तकालेपि काम्येन हरिपूजनम् ॥ ३,१६.
यतो नास्ति ततो वायुर्ऋजुर्योग्यः प्रकीर्तितः । अन्येषां सर्वदा नास्ति अतो न ऋजवः स्मृताः ॥ ३,१६.
हरिं दर्शयते वापि अपरोक्षेण सर्वदा । मोक्षाधिकारिणां काले अतः प्रज्ञेति कथ्यते ॥ ३,१६.
परोक्षेणापि सर्वेषां हरिं दर्शयते सदा । अतो वायुः सदा वीन्द्र ज्ञानमित्येव कीर्तितः ॥ ३,१६.