ततो हरिर्जगृहे श्रीवपुश्च यन्मोहिनीति प्रवदन्ति लोके । उद्वृत्तानां दितिजानां महात्मा सम्यक्तेषां वञ्चयितुं हरिर्बलम् ॥ ३,१५.
ततो हरिः प्रादुरभून्महात्मा नृसिंहनामा भगवाननन्तः । दैत्यो हिरण्यकशिपुश्च तथोरुदेशे संस्थापितः करजैर्दारितश्च ॥ ३,१५.
ततो हरिर्भगवान्वामनोभूददित्यां वै कश्यपाद्दवदेवः । इन्द्रायेदं दातुकामः खगेन्द्र तदर्थं वै पावितुं सोवितुं च ॥ ३,१५.
ततो हरिर्जमदग्नेः सुतोभूल्लोके सर्वे पर्शुरामं वदन्ति । ब्रह्मद्विषां क्षत्रियाणां च वीन्द्र भूमिं निः क्षत्रां कर्तुकामो महेशः ॥ ३,१५.
ततोभवद्व्यासरूपी स विष्णुश्चतुर्वारं राघवास्यापि पूर्णः । पराशरात्सत्यवत्यां बभूव पैलादिभिर्वेदभागांश्च कर्तुम् ॥ ३,१५.
ततो हरी रघुवंशेवतीर्णः कौसल्यायां राघवः सूर्यवंशे । समुद्रादोर्विग्रहं कर्तुमीशो हं तुं भूम्यां रावणादींश्च वीन्द्र ॥ ३,१५.
ततो हरिर्व्यासरूपी बभूव अष्टाविंशे द्वपरे ज्ञानरूपी । पराशरात्सत्यवत्यां महात्मा स्वयं वेदान् संविभक्तुं च देवः ॥ ३,१५.
ततो हरिः कृष्णरूपी बभूव देवक्यां वै वसुदेवात्स विष्णुः । कंसादीन्वै नितरां हन्तुकामः सम्यक्पातुं पाण्डवांश्चापि वीन्द्र ॥ ३,१५.
ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र । नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ ३,१५.
ततो हरिः कल्किसंज्ञश्च वीन्द्र उत्पत्स्यते युगयोर्मध्यसंधौ । दस्युप्रायान्भूमिपान्वै निहन्तुं नाम्ना हरिर्विष्णुगुप्तस्य गेहे ॥ ३,१५.
केशवाद्याश्चतुर्विंशतिर्वै संकर्षणादयः । विश्वादय सहस्रं च पराद्या अमिताः स्मृताः ॥ ३,१५.
अवतारा ह्यसंख्याता विष्णोर्नारायणस्य च । स्वयं नारायणास्ते ते नाणुमात्रं विभिद्यते ॥ ३,१५.
बलतोरूपतश्चापि गुणतश्च कथञ्चन । अनन्तोनन्तगुणतः पूर्णो विष्णुर्न चान्यथा ॥ ३,१५.
श्रीगरुडमहापुराणम् १६ श्रीकृष्ण उवाच । महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर । शृणु सम्यङ्महाभाग तज्ज्ञानस्य विनिर्णयम् ॥ ३,१६.
ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु । विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥ ३,१६.
नित्यावियोगिनी देवी हरिपादैकसंश्रया । नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥ ३,१६.
मूलस्य च हरेर्भार्या लक्ष्मीः संप्रकीर्तिता । पुंसो हि भार्या प्रकृतिः प्रकृतेश्चाभिमानिनी ॥ ३,१६.
सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो । तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥ ३,१६.
वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता । संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥ ३,१६.
अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता । कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूव ह ॥ ३,१६.
विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी । तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥ ३,१६.
कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा । रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥ ३,१६.
वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता । नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥ ३,१६.
यज्ञाख्यस्य हरेर्भार्या दक्षिणा संप्रकीर्तिता ॥ ३,१६.
जयन्ती वृषभस्यैव पत्नी संपरिकीर्तिता । विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥ ३,१६.
रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते । इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥ ३,१६.
रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम् । अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥ ३,१६.
अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ । वक्ष्ये च ब्रह्मणो रूपं शृणु पक्षीन्द्रसत्तम ॥ ३,१६.
वासुदेवात्समुत्पन्नो मायायां च खगेश्वर । स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥ ३,१६.
अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत् । तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥ ३,१६.