हरिनामविहीनं तु मुखं निः सारमुच्यते । हरिनैवेद्यहीनस्तु पाको निः सार उच्यते ॥ ३,१४.
त्रिदिनैश्चातसीपुष्पं निः सारं परिकीर्तितम् । प्रहरं मल्लिका सारं जाती तु प्रहरार्धकम् ॥ ३,१४.
त्रियामं शतपत्रं स्यात्करवीरमहर्निशम् । घटिकावधि सारं स्यात्पारिजातं खगेश्वर ॥ ३,१४.
त्रिवर्षं केसरं फल्ग सारमित्युच्यते बुधैः । कस्तूरी दशवर्षं तु कर्पूरं वर्षमात्रकम् ॥ ३,१४.
ससारमिति संप्रोक्तं चन्दनं सर्वदा स्मृतम् । शुद्धन्निः सारभूतांश्च वक्ष्ये शृणु खगेश्वर ॥ ३,१४.
तुषा मेध्या आरनालं पुण्यकं भिः सटा तथा । उपोद्व्रजी अलाबूश्च बृहत्कोशातकी तथा ॥ ३,१४.
वृन्ताकं चुक्रशाकश्च बिल्वमौदुंवरं तथा । पलाञ्जुर्लशुनं वृन्तं कलञ्जं च तथा द्विजा ॥ ३,१४.
एतत्सर्वत्र काले च निः सारमिति कीर्तितम् । एकादश्यां वैश्वदेवं श्राद्धं तर्पणमेव च ॥ ३,१४.
मन्त्रेण प्रेतदहनमसारं परिकीर्तितम् । हविर्नारायणो देवो एतांश्च ह्यशुभान्र सान् ॥ ३,१४.
न गृह्णाति न गृह्णाति न गृह्णाति हरिः स्वयम् । तथापि सर्वं जानाति जीवानां पापकर्मणाम् ॥ ३,१४.
आस्वादनं कारयति स्वयं नास्वादते हरिः । असारभोजनं चैव जीवानां कर्मजं फलम् ॥ ३,१४.
अमुख्यभोजिनो जीवाः कुन्त्याद्या मुख्यभोजिनः । शुभानि च पिबेद्विष्णुरशुभं नो पिबेद्विभुः ॥ ३,१४.
को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिः स्वयम् । न तेन सदृशः कोपि देशे काले च विद्यते । तस्यावतारान्वक्ष्यहं शृणु पक्षीन्द्रसत्तम ॥ ३,१४.
श्रीगरुडमहापुराणम् १५ श्रीकृष्ण उवाच । अथावता रान्पुरुषाख्यो हरिश्च गतो ध्यानं कर्तुमीशो महात्मा । प्रादुर्बभूवाखिलसद्गुणार्णवः स एव विष्णुः स च बीजभूतः ॥ ३,१५.
यो बीजभूतः पुरुषाख्य विष्णुः स एवाभूद्वासुदेवो महात्मा । सृष्टिं कर्तुं पुरुषाख्यस्य वायोर्मायाख्यायां मूलरूपो यथाऽस ॥ ३,१५.
यो वासुदेवस्तु स एव जातः संकर्षणाख्यो खिलसद्गुणात्मा । सृष्टिं कर्तुं सूत्रभूतस्य वायोर्जयाख्यायं पूर्णसंवित्परात्मा ॥ ३,१५.
स एवं संकर्षणनामधेयः प्रद्युम्ननामा च स एव विश्रुतः । सरस्वतीभारतीसर्जनार्थं स एव देव्या मूलरूपो बभूव ॥ ३,१५.
सृष्ट्वा युक्तं षोडशभिः कलाभिर्महत्तत्त्वं सूक्ष्मरूपं स एव । साहङ्कारं क्रीडयामास देवः शृणु त्वं वै षोडशाख्याः कलाश्च ॥ ३,१५.
भूतानि कर्मेन्द्रियपञ्चकानि ज्ञानेन्द्रियाणीह तथा मनश्च । ततो बभूव ह्यनिरुद्धसंज्ञको जीवांश्च संगृह्य सुपूर्णशक्तिः ॥ ३,१५.
सोयं विरिञ्च्यादिसमस्तदेवान् स्थूलेन देहेन ससर्ज नाथः । तथा स विष्णुः पुरुषाभिधस्तु सनत्कुमारत्वमवाप वीन्द्र ॥ ३,१५.
अनन्यसाध्यं ब्रह्मचर्यं च कर्तुं दशेन्द्रियाणां शोषणार्थं सदैव । सनन्दनादौ पठितः कुमारस्तस्मान्नान्यो नात्र विचार्यमस्ति ॥ ३,१५.
स एव विष्णुः सूकरत्वं ह्यवाप क्षोपणीमुद्धर्तुं दैत्यवपुर्निहन्तुम् । हिरण्याक्षं सज्जनानां खगेन्द्र तथा भूमेः स्थापनार्थं च देवः ॥ ३,१५.
ततो हरिर्मद्विदासत्वमापानृषेर्भार्यायां यामिन्यां यो महात्मा । तत्रावतारे पञ्चरात्रं समग्रमुपादेष्टुं नाप दानं स्वतन्त्रः ॥ ३,१५.
स एव विष्णुः समभूद्ब्रदर्यां नारायणाख्यः शमलापहश्च । तपस्तप्तुं शिक्षयितुं त्वृषीणां तिरस्कर्तुं ह्यप्सरसां सहस्रम् ॥ ३,१५.
ततो हरिः कपिलत्वं ह्यवाप्य तिरोहितान्कालबलेन तत्त्वान् । चतुर्विशतिं संशयं चोद्धरिष्यन्नुपादिशच्चासुरये महात्मा ॥ ३,१५.
स एव दतः समभूद्रमेशोनसूयायामत्रिरूपः परात्मा । आन्वीक्षिकिं नाम सुतर्कविद्यामलर्कनाम्ने प्रददात्तां महात्मा ॥ ३,१५.
स एव वंशेप्यभवद्रवेश्च आकूत्यां यः सच्चिदानन्दरूपः । स्वायंभुवं यत्तु मन्वन्तरं च देवैः साकं पालयामास वीन्द्र ॥ ३,१५.
स एव विष्णुः स उरुक्रमोभूदाग्नीध्रपुत्र्यां मेरुदेव्यां च नाभेः । विद्यारतानां मानिनां सर्वदैवमत्याश्चर्यं दर्शयितुं च वीन्द्र ॥ ३,१५.
ततो हरिर्जगृहे कूर्मरूपं सुरासुराणामुदधिं विमथ्नताम् । पृष्ठे धर्तुं मन्दरं पर्वतं च ब्रह्माण्डं वा धर्तुमीशो महात्मा ॥ ३,१५.
ततो हरिः प्रादुरभून्महात्मा धन्वन्तरिर्नाम हरिन्मणिद्युतिः । अपथ्यदोषान्परिहर्तुमेव हस्ते गृहीत्वा पूर्णकुभं सुधाभिः ॥ ३,१५.