चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा 43.
पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत् 43.
देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा 43.
ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत् 43.
अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा (च) 43.
अग्निकुण्डं विमानं च मण्डपं गृहमेव च 43.
दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम् 43.
तत्प्रभातेऽर्चयिष्यामि सामग्र्याः सन्निधौ भव 43.
रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम् 43.
धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमंत्रयेत् 43.
गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत् 43.
विशुद्धग्रन्थिकं रम्यं महापातकनाशनम् 43.
एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत् 43.
धर्मकामार्थसिद्ध्यर्थं स्वकंठे धारयाम्यहम् 43.
नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत् 43.
अष्टोत्तरशतेनैव दद्यादेकपवित्रकम् 43.
विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर 43.
ज्ञानतोऽज्ञानतो वापि पूजनादि कृतं मया 43.
मणिविद्रुममालभिर्मन्दारकुसुमादिभिः 43.
वनमाला यथा देव कौस्तुभं सततं हृदि 43.
एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम् 43.
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया 43.
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् 44.
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि 44.
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम् 44.
स्वप्रकाशं निराकारं सदानं दमनादि यत् 44.
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् 44.
आत्मानं रथिनं विद्धि शरीरं रथमेव तु इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ।। 44.
आत्मेंद्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः 44.
स तु तत्पदमाप्नोति स हि भूयो न जायते 44.