असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्र सम्यक् । द्राक्षेक्षुसारं नारिकेलस्य सारं चूतस्य सारं पनसस्यापि सारम् ॥ ३,१४.
नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य । नारायणो बीजरूपस्य सारं गृह्णाति नित्यं भक्तवर्यो दयालुः ॥ ३,१४.
ताम्बूलसारं खदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारम् । गोधूमसारं यवानां च सारं माषस्य सारं हरेणोश्च सारम् ॥ ३,१४.
शुद्धं तथा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् ॥ ३,१४.
निषिद्धान्सर्वशाकस्य सारांस्तथा निपिद्धाल्लांवणस्वापि सारान् । गृह्णाति विष्णुः परमादरेण अन्नस्य सारं भक्ष्यभोज्यस्य सारम् ॥ ३,१४.
सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम् । घृतस्य सारं रामठस्यापि सारं गृह्णाति विष्णुः सर्षपस्यापि सारम् ॥ ३,१४.
मरीचसारं जीरकस्यापि सारं तथा हविर्घृतपक्वस्य सारम् । तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं नवनीतस्य सारम् ॥ ३,१४.
लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासुदेवस्तु भुक्ते । लक्ष्मीपतिः सर्वजगन्निवा सस्तस्याज्ञया वासुदेवोपि नित्यम् ॥ ३,१४.
तच्छेषसारानपि चावनीशो महात्मनोंशाञ्छृणु शिष्यवर्य । एवं विमूढा वासुदेवस्य भक्ताः किं वक्तव्यं विष्णुभक्ता हि लोके ॥ ३,१४.
कल्याणास्ते सारभोक्तार एव नैषां भवेत्तेन दुः खाभिवृद्धिः । भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टांस्तान्वै भुक्तिचिन्त्तांश्च विद्धि ॥ ३,१४.
वक्ष्ये विशेषं वैश्वदेवे खगेन्द्र गोप्यं नो वदान्यत्र विद्वान् । सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्थं हरिं च ॥ ३,१४.
ते वै सदा सारभोक्तार एव ज्ञेयास्त्वतो विष्णुरेको महात्मा । सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वं त्वविरुद्धशक्तिः ॥ ३,१४.
वक्ष्ये ह सारान्पुनरन्यान्खगेन्द्र शृणुष्व गुह्यं परमादरेण । द्राक्षादयः सर्व एव त्वसाराः कालादिदुष्टा भावदुष्टाः पदार्थाः ॥ ३,१४.
अतिपक्वानन्तरं तु तथा दिनचतुष्टये । असाराः कलुषा ज्ञेयास्तथा जंबूफलं स्मृतम् ॥ ३,१४.
मासस्यानन्तरं वीन्द्र त्वसारं पनसं स्मृतम् । षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत्स्मृतम् ॥ ३,१४.
आर्द्रं पूतं नारिकेलं स्फोटनानन्तरं प्रभो । अहोरात्रानन्तरं तु असारं परिकीर्तितम् ॥ ३,१४.
शुष्कभूतं नारिकेलं खजूरं तु यथा तथा । पक्षस्यानन्तरं चूतमसारं परिकीर्तितम् ॥ ३,१४.
वर्षस्यानन्तरं वीन्द्र पूगीफलमुदाहृतम् । घटिकानन्तरं वीन्द्र तांबूलं परिकीर्तितम् ॥ ३,१४.
यामस्यानन्तरं चान्नं सूपान्नं पायसं तथा । भक्ष्यं च क्वथितं वीन्द्र असारं परिकीर्तितम् ॥ ३,१४.
त्रिपक्षानन्तरं वीन्द्र तैलपक्वं तथा स्मृतम् । चतुर्यामानन्तरं च त्वसारं घृतपक्वकम् ॥ ३,१४.
त्रियामानन्तरं शाका निः साराः परिकीर्तिताः । जंबीरं शृङ्गबेरे धात्री कर्पूरं च चूतकम् ॥ ३,१४.
वत्सरानन्तरं वीन्द्र निः सारं परिकीर्तितम् । पर्पटः पक्षमात्रेण निः सारः परिकीर्तितः ॥ ३,१४.
तुलसी सर्वदा सारा एकादश्यामपि द्विज । आर्द्रा वाप्यथवा शुष्का सार्द्रा सारवती स्मृता ॥ ३,१४.
एकादश्यां तु तुलसी सारा ग्राह्या मनीषिभिः । त्वचा नासेंद्रियेणापि न तु जिह्वेन्द्रियेण च ॥ ३,१४.
एकादश्यां हरेरन्नं निः सारं परिकीर्तितम् । एकादश्यां हरेस्तीर्थं मनुष्याणां खगेश्वर ॥ ३,१४.
एकवारे च सारं स्याद्द्विवारे च ततोधिकम् । एकादश्यां महाभाग तीर्थं गन्धादिमिश्रितम् ॥ ३,१४.
असारमिति संप्रोक्तं तथा स्वादूदमिश्रितम् । एकादश्यां हरेः सारं क्षीरं सर्पिर्मधूदकम् ॥ ३,१४.
निः सारं मनुजेन्द्राणामिति वेदविदां मतम् । आषाढमासे गरुड शाको निः सार उच्यते ॥ ३,१४.
मासि भाद्रपदे वीन्द्र ह्यसारं दधि चोच्यते । क्षीरं तु ह्याश्विने मासे निः सारं परिकीर्तितम् ॥ ३,१४.
ऊर्ध्वपुण्ड्रगदाहीना नार्यसारेति गीयते । हरिभक्तिविहीना ये ह्यसुराः परिकीर्तिताः ॥ ३,१४.