यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् । तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥ ३,१३.
यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् । असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥ ३,१३.
नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः । वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥ ३,१३.
चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् । सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥ ३,१३.
वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः । सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.
रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् । विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥ ३,१३.
गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् । वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥ ३,१३.
उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् । नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥ ३,१३.
अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः । अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥ ३,१३.
स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् । अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥ ३,१३.
दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे । संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे ॥ ३,१३.
भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम् । कश्यपञ्जनयामास मनसा च स्वयं प्रभुः ॥ ३,१३.
संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः । कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् ॥ ३,१३.
अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम् । अजीजनद्भरद्वाजं वसिष्ठ तदनतरम् ॥ ३,१३.
दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु । संवत्सरानन्तरेण असृजत्कमलासनः ॥ ३,१३.
वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः । दशवर्षानन्तरेण जमदग्निं ततोऽसृजत् ॥ ३,१३.
दशवर्षानन्तरेण मनुर्वैवस्वतोऽभवत् । मनोरनन्तरं जज्ञे शतवर्षादनन्तरम् ॥ ३,१३.
विष्वक्सेनो महाभागो वायुपुत्रो महाबलः । तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः ॥ ३,१३.
तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम् । धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे ॥ ३,१३.
विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम् । जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः ॥ ३,१३.
जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः । शतवर्षानन्तरं तु सृष्टवाञ्छिववाहनम् ॥ ३,१३.
कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम् । पर्जन्यमसृजद्ब्रह्मा मन्त्रयन्त्राभिमानिनम् ॥ ३,१३.
पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम् । पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् ॥ ३,१३.
एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर । एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३,१३.
श्रीगरुडमहापुराणम् १४ श्रीगरुड उवाच । अवतारान्हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम् । गुणानामन्तर ब्रूहि शिष्यस्य मम सव्रत ॥ ३,१४.
श्रीकृष्ण उवाच । यो मूलरूपी भगवाननन्तो ब्रह्मादिभिः पुर्णगुणः स्वतन्त्रः । पुरातनः पूर्णतनुर्मदात्मा न तादृशाः संति कदापि वीद्र ॥ ३,१४.
पादश्च पूर्णः पादतलं च पूर्णं नखाश्च पूर्णाः कटिकण्ठौ च पूर्णौ । ऊरू च पूर्णे उदरं च पूर्णं लब्ध्वापि पूर्णाञ्जगृहे तथाप्युरः ॥ ३,१४.
स्कन्धः सुपूर्णाः सकलाश्च बाहवः पूर्णाः केशाः श्मश्रुदन्ताश्च पूर्णाः । लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः ॥ ३,१४.
अण्डश्च पूर्णो ह्यण्डरोमाणि कक्षाश्चक्षुश्च श्रोत्रे सर्व एते च पूर्णाः । किं वर्णये मूलरूपं हरेश्च यावद्वलं पूर्णं समग्रदेहे ॥ ३,१४.
तावद्ब्रलं ह्येकरोमादिकेषु संतित्विमे हि यतः स एव पूर्णः । स एव तु सर्वस्य कर्ता स एव हर्था स तु सारांशभोक्ता ॥ ३,१४.