संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः । भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥ ३,१३.
अनन्तरं संबभूव गरुडस्तु ततः परम् । दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥ ३,१३.
शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः । दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥ ३,१३.
गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः । दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥ ३,१३.
पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् । दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥ ३,१३.
अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः । दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥ ३,१३.
इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् । असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥ ३,१३.
तदनन्तरजां देवीं दशवर्षादनन्तरम् । रतिं स जनयामास कामभार्यां महाप्रभुः ॥ ३,१३.
कामस्याप्यभिमानी तु स एव परिकीर्तितः । ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥ ३,१३.
दशवर्षानन्तरं तु निर्ममे नासिक ततः । तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥ ३,१३.
निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः । अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥ ३,१३.
निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् । पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥ ३,१३.
गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् । स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥ ३,१३.
पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे । शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥ ३,१३.
दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः । पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥ ३,१३.
प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् । दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥ ३,१३.
निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः । पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥ ३,१३.
विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः । अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥ ३,१३.
निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः । दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥ ३,१३.
कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः । प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.
यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् । तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥ ३,१३.
यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् । असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥ ३,१३.
नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः । वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥ ३,१३.
चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् । सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥ ३,१३.
वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः । सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.
रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् । विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥ ३,१३.
गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् । वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥ ३,१३.
उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् । नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥ ३,१३.
अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः । अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥ ३,१३.
स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् । अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥ ३,१३.