महीपते च मद्बुद्धिस्तस्मादच्छिन्नसंज्ञिकः । एतादृशोप्यहं देव न च शक्तिस्तु नस्तवे ॥ ३,१२.
मह्यमच्छिन्नभक्ताय दयां कुरु महाप्रभो । इति स्तुत्वा हरिं ब्रह्मा स्थितः प्राञ्ज लिरग्रतः ॥ ३,१२.
श्रीगरुडमहापुराणम् १३ श्रीकृष्ण उवाच । इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः । मेधगंभीरया वाचा प्रोवाच मधुसूदनः ॥ ३,१३.
सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च । यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो ॥ ३,१३.
नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज । एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम् ॥ ३,१३.
सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम् । महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् ॥ ३,१३.
आदौ ससर्ज गरुड पुरुषात्मा स एव च । ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा ॥ ३,१३.
ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः । आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम् ॥ ३,१३.
तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः । स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः ॥ ३,१३.
वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः । गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम् ॥ ३,१३.
संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः । भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥ ३,१३.
अनन्तरं संबभूव गरुडस्तु ततः परम् । दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥ ३,१३.
शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः । दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥ ३,१३.
गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः । दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥ ३,१३.
पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् । दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥ ३,१३.
अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः । दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥ ३,१३.
इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् । असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥ ३,१३.
तदनन्तरजां देवीं दशवर्षादनन्तरम् । रतिं स जनयामास कामभार्यां महाप्रभुः ॥ ३,१३.
कामस्याप्यभिमानी तु स एव परिकीर्तितः । ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥ ३,१३.
दशवर्षानन्तरं तु निर्ममे नासिक ततः । तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥ ३,१३.
निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः । अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥ ३,१३.
निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् । पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥ ३,१३.
गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् । स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥ ३,१३.
पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे । शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥ ३,१३.
दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः । पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥ ३,१३.
प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् । दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥ ३,१३.
निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः । पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥ ३,१३.
विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः । अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥ ३,१३.
निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः । दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥ ३,१३.
कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः । प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.