विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः 43.
सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत् 43.
तदर्द्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम् 43.
उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु 43.
विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम् 43.
हृन्नाभिरू(रु) रुमाने च जानुभ्यामवलम्बिनी 43.
षट्त्रिं(ड्विं) शच्च चतुर्विशद्द्वादश ग्रन्थयोऽथवा 43.
चर्चितं कुंकुमेनैव हरिद्राचन्दनेन वा 43.
अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम् 43.
रोचनाकुंकुमेनैव प्रद्युम्नेन तु दक्षिणे 43.
चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा 43.
पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत् 43.
देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा 43.
ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत् 43.
अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा (च) 43.
अग्निकुण्डं विमानं च मण्डपं गृहमेव च 43.
दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम् 43.
तत्प्रभातेऽर्चयिष्यामि सामग्र्याः सन्निधौ भव 43.
रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम् 43.
धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमंत्रयेत् 43.
गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत् 43.
विशुद्धग्रन्थिकं रम्यं महापातकनाशनम् 43.
एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत् 43.
धर्मकामार्थसिद्ध्यर्थं स्वकंठे धारयाम्यहम् 43.
नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत् 43.
अष्टोत्तरशतेनैव दद्यादेकपवित्रकम् 43.
विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर 43.
ज्ञानतोऽज्ञानतो वापि पूजनादि कृतं मया 43.
मणिविद्रुममालभिर्मन्दारकुसुमादिभिः 43.
वनमाला यथा देव कौस्तुभं सततं हृदि 43.