शतवर्षानन्तरं च सर्वेषां कलिना सह । वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥ ३,१२.
तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः । तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥ ३,१२.
सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः । दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥ ३,१२.
संसारे वान्धतमसि सर्वत्र हरिदूषकः । मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥ ३,१२.
तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित् । दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥ ३,१२.
तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा । अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥ ३,१२.
तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा । जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥ ३,१२.
तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः । तस्मात्पञ्चगुणैर्हीनौ मधुकैटभसंज्ञकौ ॥ ३,१२.
तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन । विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥ ३,१२.
तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः । तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥ ३,१२.
मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः । तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥ ३,१२.
तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः । शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥ ३,१२.
शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते । बाणस्ततोऽधमो ज्ञेयः स तु कीचकनामतः ॥ ३,१२.
द्वापारख्यो महाहासो बाणासुरसमः स्मृतः । तस्माद्दशगुणैर्हीनो नमुचिर्दैत्यसत्तमः ॥ ३,१२.
नमुचेस्तु समौ ज्ञेयौ पाक इल्वल इत्युभौ । तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥ ३,१२.
तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यराट् । धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥ ३,१२.
केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः । तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥ ३,१२.
त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः । वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥ ३,१२.
तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ । दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥ ३,१२.
कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः । कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥ ३,१२.
तस्माच्छतगुणैर्हीनः शतधन्वा महासुरः । समानस्तस्य विज्ञेयः कर्मारिर्दैत्यसत्तमः ॥ ३,१२.
कालकेयस्तु विज्ञेयः सदा वेनसमो मतः । अधमानां तु दैत्यानामुत्तमैः साम्यमुच्यते ॥ ३,१२.
तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः । तस्माच्छतगुर्णैहीनश्चित्तमानसुरो महान् ॥ ३,१२.
तच्छरीराभिमानी तु तस्माच्छतगुणैर्वरः । तस्माच्छतगुणैहींनो हस्तमानसुरो महान् ॥ ३,१२.
तस्माच्छतगुणैर्हीनः पादमानसुरो महान् । नेत्रेन्द्रियाभिमानी तु तस्माच्छतगुणो वरः ॥ ३,१२.
चक्षुरिन्द्रियमानी तु तस्माच्छतगुणो वरः । तस्माच्छगुणैर्हीनः स्पर्शमानसुरो महान् ॥ ३,१२.
तस्माच्छतगुर्णैहीनश्चण्डमानसुरो महान् । तस्माच्छतगुर्णैर्हीनः शिश्रमानसुरो महान् ॥ ३,१२.
तस्माच्छतगुणैर्हीनः कर्ममानसुरः स्मृतः । कल्पाद्यैः प्रेरिताः सर्वे रुद्राद्या अधिकारिणः ॥ ३,१२.
कदाचित्सुविरुद्धं च कुर्वन्ति तव सत्तम । कदाप्यहं च वायुश्च विरुद्धं नाचरेव भोः ॥ ३,१२.
मूलेष्वंशावतारेषु रुद्रादीना महाप्रभो । बुद्धिर्विनश्यते यस्मात्तस्माच्छिन्ना हि तेऽखिलाः ॥ ३,१२.