इत्यादिचिन्तनं दोषो हरिनिन्देति चोच्यते । अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥ ३,१२.
शालग्रामं विहायैव नमनं ये प्रकुर्वते । ते सर्वे हरिनिन्दायामविकारिण एव हि ॥ ३,१२.
मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम् । पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥ ३,१२.
तर्हि तेषां हि कालेषु दुः खं याति न संशयः । अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥ ३,१२.
ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा । अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥ ३,१२.
ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन । विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥ ३,१२.
द्विमासहीनां तुलसीमप्रसूतां च गां नवाम् । ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥ ३,१२.
गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः । अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥ ३,१२.
कलौ संति कल्पमानं कलेरन्ते संति च । तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥ ३,१२.
तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः । साधकैर्विष्णुकार्याणां वायुदासैः प्रपीडिताः ॥ ३,१२.
शतवर्षानन्तरं च सर्वेषां कलिना सह । वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥ ३,१२.
तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः । तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥ ३,१२.
सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः । दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥ ३,१२.
संसारे वान्धतमसि सर्वत्र हरिदूषकः । मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥ ३,१२.
तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित् । दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥ ३,१२.
तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा । अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥ ३,१२.
तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा । जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥ ३,१२.
तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः । तस्मात्पञ्चगुणैर्हीनौ मधुकैटभसंज्ञकौ ॥ ३,१२.
तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन । विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥ ३,१२.
तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः । तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥ ३,१२.
मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः । तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥ ३,१२.
तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः । शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥ ३,१२.
शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते । बाणस्ततोऽधमो ज्ञेयः स तु कीचकनामतः ॥ ३,१२.
द्वापारख्यो महाहासो बाणासुरसमः स्मृतः । तस्माद्दशगुणैर्हीनो नमुचिर्दैत्यसत्तमः ॥ ३,१२.
नमुचेस्तु समौ ज्ञेयौ पाक इल्वल इत्युभौ । तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥ ३,१२.
तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यराट् । धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥ ३,१२.
केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः । तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥ ३,१२.
त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः । वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥ ३,१२.
तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ । दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥ ३,१२.
कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः । कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥ ३,१२.