मूलरूपे तु नास्त्येव भारत्या ज्ञानविस्मृतिः । भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः ॥ ३,१२.
अंशावतरणं नास्ति सरस्वत्याः कदाचन । अंशावतरणं नास्ति ममापि मधुसूदन ॥ ३,१२.
तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च । वायोरंशावतारोस्ति यथा मूले तथैव च ॥ ३,१२.
बलज्ञानादिकं सर्वं चिन्तनीयं न संशयः । तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः ॥ ३,१२.
अवतारेषु वायोस्तु सम्यक्शक्त्यात्मनास्ति हि । अपरोक्षतिरोभावौ नांशावतरणेष्वपि ॥ ३,१२.
बलज्ञानादिकं यावन्मूलरूपे प्रदृश्यते । त्रेतायुगस्वरूपे च न दर्शयति तादृशम् ॥ ३,१२.
त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो । द्वापरस्थे स्वरूपे तत्तद्दर्शयति तादृशम् । त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ॥ ३,१२.
द्वापरस्थे वायुरूपे यादृग्वा दर्शयत्प्रभुः । वायुः कलियुगे रूपे तद्दर्शयति तादृशम् ॥ ३,१२.
तथा दर्शयते वायुर्दैत्यानां मोहनाय च । अवतारेषु वायोश्च अन्तरं ये विदुः प्रभो ॥ ३,१२.
तेऽधं तमः प्रविशन्ते ते दैत्या न च ते सुराः । वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये ॥ ३,१२.
निन्दां कुर्वन्ति ये विष्णोर्जिह्वाछेदं करोम्यहम् । तदर्थमेव वायोश्च अवतारः सदा भुवि ॥ ३,१२.
गुणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनम् । जातानन्दादिपूर्णाङ्ख्यं सोहमित्यादिचिन्तनम् ॥ ३,१२.
चिदानन्दात्मके देहे उत्पत्त्यादिविचिन्तनम् । अच्छेद्याभेद्यगात्रेषु च्छेदभेदादिचिन्तनम् ॥ ३,१२.
देव्या नित्यावियोगिन्या वियोगादिविचिन्तनम् । क्लेशशोकादिशून्यस्य हरेः क्लेशादिचिन्तनम् ॥ ३,१२.
व्यासरामादिरूपेष्वनृषिविप्रत्वचिन्तनम् । कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् ॥ ३,१२.
रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम् । रामकृष्णादिरूपेषु पराजयविचिन्तनम् ॥ ३,१२.
सन्तानार्थं तु कृष्णे न शिवपूजादिचिन्तनम् । रामेण दुः खयुक्तेन लिङ्गस्य स्थापनं कृतम् ॥ ३,१२.
पञ्चधातुमये कृष्णे हरिरूपविचिन्तनम् । स्वयं व्यक्तस्थले चापि चिदानन्दत्वकल्पनम् ॥ ३,१२.
पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम् । अस्वतन्त्रेण रुद्रेण हरेरैक्यदिचिन्तनम् ॥ ३,१२.
विष्णोः सूर्येण साकं च अभेदा दिविचिन्तनम् । सर्वोत्तमः सूर्य एव विष्ण्वाद्यास्तस्य किङ्कराः ॥ ३,१२.
इत्यादिचिन्तनं दोषो हरिनिन्देति चोच्यते । अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥ ३,१२.
शालग्रामं विहायैव नमनं ये प्रकुर्वते । ते सर्वे हरिनिन्दायामविकारिण एव हि ॥ ३,१२.
मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम् । पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥ ३,१२.
तर्हि तेषां हि कालेषु दुः खं याति न संशयः । अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥ ३,१२.
ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा । अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥ ३,१२.
ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन । विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥ ३,१२.
द्विमासहीनां तुलसीमप्रसूतां च गां नवाम् । ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥ ३,१२.
गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः । अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥ ३,१२.
कलौ संति कल्पमानं कलेरन्ते संति च । तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥ ३,१२.
तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः । साधकैर्विष्णुकार्याणां वायुदासैः प्रपीडिताः ॥ ३,१२.