विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी । सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥ ३,१२.
अहं विजानामि रमाप्रसादात्तव प्रसादाच्च गुणान्सदैव । स्वयोग्यभूताञ्छ्रुतिषूक्तान् गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥ ३,१२.
तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः । दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥ ३,१२.
तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः । सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥ ३,१२.
यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः । ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥ ३,१२.
गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्मम। येये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥ ३,१२.
येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः । येये देवा बहिरर्थभावा मोक्षादन्ये प्रलपन्तः सदैव ॥ ३,१२.
तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव । यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्येव नित्यम् ॥ ३,१२.
पूर्णानन्दज्ञानदेहोऽपि नित्यं सदा शरीरी भाष्यते भक्तिमद्भिः । यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥ ३,१२.
नतोऽहं सर्वदास्मिञ्शरीरेऽहंममेत्यभिमानेन शून्यः । अत्तोऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥ ३,१२.
स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः । एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥ ३,१२.
तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः । शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तोऽपि च संस्मृताः खग ॥ ३,१२.
स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति । स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥ ३,१२.
नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः । ममापि भार्या बहिरर्थशून्या अमूढभावा मूढवतीव दृश्यते ॥ ३,१२.
अमूढभूता ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति । यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.
यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम् । क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥ ३,१२.
सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः । दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.
अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम् । एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥ ३,१२.
ज्ञानं त्वृजूनां मोक्षकालेपि पञ्चवाय्वादीनां प्रलयेनाद्रादीर्न । वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥ ३,१२.
गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः । ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥ ३,१२.
तेन प्रीतिर्देवदेवस्य विष्णोर्भविष्यतीत्येव विनिश्चितात्मा । प्रश्रादिकं त्वज्ञवत्सर्वदैवं करिष्येहं मोहनायाधमानाम् ॥ ३,१२.
सूर्योदये नास्ति यथा तमश्च तथाज्ञानं नास्तिनास्त्येव देव । करोम्यहं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सतां हि ॥ ३,१२.
शतजन्मगतानां त्वनृजूनां पूर्वमेव तु । अपरोक्षाभाव एव ह्यज्ञानं समुदीरितम् ॥ ३,१२.
अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः । शतजन्मसु देवेश अपरोक्षेण सर्वदा ॥ ३,१२.
पूर्णज्ञानं ममास्त्येव नात्र कार्या विचारणा । शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो ॥ ३,१२.
पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः । संज्ञाजन्मगतायाश्च सरस्वत्या महाप्रभो ॥ ३,१२.
नाज्ञानं चिन्तनीयं हि ब्रह्माय्वोश्च देव हि । अत्र कश्चिद्विशेषोस्ति ज्ञातव्यस्तत्वमिच्छुभिः ॥ ३,१२.
अवतारेषु भारत्याः कदाचिज्ज्ञानपूर्वकम् । सर्वदा ज्ञानरूपा सा सर्वदुःखविवर्जिता ॥ ३,१२.
दैत्यानां मोहनार्थाय अंशे दुःखीव दृश्यते । तस्या दुःखादिकं किञ्चिन्नास्तिनास्त्येव सर्वथा ॥ ३,१२.
अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते । तावन्मात्रेण वाज्ञानं तस्यां नैवाहितं च यत् ॥ ३,१२.